________________
३२९
सू० २।१२] स्त्रीमुक्तिविचारः विपरीतस्तु नियमो न सम्भवत्येव: नपुंसकवेदे तत्कारणापुण्यपरमप्रकर्षे सत्यप्यन्यस्यानभ्युपगमात् पुंस्यभ्युपगमाञ्च, अनित्यन्यस्य प्रयत्नानन्तरीयकत्वेतरत्ववत् । ततश्च स्त्रीवेदस्यापि यदि मोक्षहेतुः परमप्रकर्षः स्यात् , तदा तदभ्युपगमादेवापरोप्यनियोऽवश्यमापद्यते, अन्यथा पुंस्यपि न स्यात् । सिद्ध च प्रतिवन्ध-५ यामावधि कतिकोदयादिवदुक्तंप्रकर्पयोरविनामाचे स्त्रीणां तन्कारफापुण्यपरमप्रकर्षप्रतिषेधेन मोक्षहेतुपरमप्रका निषिध्यते ।
न च 'नपुंसकस्य मोक्षहेतुपरमप्रकपास्ति तत्कारणापुण्यपरमप्रकर्पसद्भावात् पुंवत् । पुंसो वा नास्त्यत एव नपुंसकवत् । तत्कारणाऽपुण्यपरमप्रकाँ वा नपुंसके · नास्ति परमप्रकप-१० त्वात् स्त्रीवदित्यप्यनिष्टापत्तिः उभयप्रसिद्धाद्धेतोरुभयप्रसिद्धस्य निषेधेनोभयोस्तुल्यत्वात्' इत्यभिधातव्यम् : उभयाभिप्रेतागमेन याधनोत् । स्त्रीणां तु तत्कारणापुण्यपरमप्रकर्ष पराभ्युपगतेनैव मोक्षहेतुपरमप्रकर्षणापाद्य तत्प्रतिषेधेन तद्धतुरेव प्रतिपिध्यत इत्यस्ति विशेषः।
यहाँ नोक्तानुमाने तत्कारणापुण्यपरमप्रकाभावाद्धेतोमाईहेतुपरमप्रकर्षः स्त्रीपु निविध्यते, अपि तु परमप्रकर्षत्वाद् दृष्टान्ते दृष्टसाध्यव्याप्तिकात् । न चात्र केनचिद्व्यभिचारः; स्त्रीसम्बन्धिनः कस्यचित्परमप्रकर्षस्यासम्भवात् ।मायापरमप्रकर्षास्तीति चेत्न; स्त्रीणां मायावाहुल्यमात्रस्यैवागमे प्रसिद्धः । अन्यथा पुंवत्सप्तम २० पृथिवीगमनानुषङ्गः। 'मायापरमप्रकर्षादन्यत्वे सति' इति विशेपणोद्वा न दोषः । तन्न ज्ञानादिपरमप्रकपो मोक्षहेतुत्तत्रास्तीत्य
१ मोक्षहेतुपरमप्रकर्षों व्यापकः साध्यं तत्कारणापुण्यपरमप्रको व्याप्यो हेतुरिति । २ अविनाभावः। ३ शब्दः प्रयत्नानन्तरीयकः अनित्यत्वादित्यत्रानित्यत्वस्य व्याप्यरूपस्य हेतोर्यथा प्रयत्नानन्तरीयकत्वन् । ४ नियमः सिद्धो यतः। ५ मोक्षहेतुपरमप्रकर्षसद्भावेपि अपरोऽनिष्टो नोपपद्यते चेत्। ६ तादात्म्यतदुत्पत्तिलक्षणे द्वै। ७ मोक्षहेतुपरमप्रकर्षसप्तमपृथ्वीगमनकारणापुण्यपरमप्रकर्षलक्षणयोः । ८ मोक्षहेतुपरमप्रकर्षः। ९ साध्यस्य । १० वादिप्रतिवादिनोः। ११ सितपटप्रसिद्धस्य स्त्रीनिर्वाणस्यास्माभिः प्रतिषेधादसत्प्रसिद्धस्य सितपटेन प्रतिषेधात् इति तुल्यत्वम् । १२ सितपटपक्षस्य । १३ परः सितपटः । १४ इति कथं तुल्यत्वनुभयोः १ । १५ प्रागुक्तस्य परिहारान्तरे यदाशब्दः। १६ व्यापकाभावाद् व्याप्याभावं न कुर्म इत्यर्थः । १७ यो यः परमप्रकर्षः स स स्त्रीषु नास्तीति । १८ स्त्रीषु मोक्षप्रतिषेधे । १९ प्राचुर्यमानं न तु परमप्रकर्षः। २० मायापरमप्रकर्षः स्त्रीष्वस्ति यदि । २१ परमप्रकर्षत्वे । २२ व्यभिचारलक्षणः। २३ परमप्रकर्षवादित्यत्रानुमाने ।