SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ३२८ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० संसर्गविशेषोस्तीति चेत् स कोन्योऽन्यत्र कथञ्चित्तादात्म्यात? तंददृष्कृतकत्वादेः शरीरादावपि भावात् । ततो नाचेतना ज्ञाना. दयः स्वसंवेद्यत्वादनुभववत् । स्वसंवेद्यास्ते परसंवेदनान्यथान. पत्तरिति स्वसंवेदनसिद्धिप्रस्तावे प्रतिपादितम् । तथा चात्म. ५स्वभावास्ते चेतनत्वादनुभववत् । सुखमप्यात्मस्वभाव एव मोक्षेऽ. भिव्यज्यमानत्वाद् ज्ञानवत् । अनात्मस्वभावत्वे तत्र तदभिव्यक्ति स्याहुःखवत् । तथा सुखात्मको मोक्षश्चेतनात्मकत्वे सत्यखिलदुःखविवेकात्मकत्वात् संहृतसकलविकल्पध्यानावस्थावत् । तथानन्तं तत १० आत्मस्वभावत्वे सत्यपेतप्रतिवन्धत्वात् ज्ञानवदेव । अपेतप्रति वन्धत्वं तु मोहनीयादेः प्रतिवन्धकस्य कर्मणोऽपायात्प्रसिद्धमेव । इति सिंद्धमनन्तज्ञानादिचैतन्यविशेषेऽवस्थानं पुंसो मोक्ष इति। ननु पुंस एवानन्तज्ञानादिस्वरूपलाभलक्षणो मोक्ष इत्ययुक्तम्; स्त्रीणामप्यस्योपपत्तेः। तथाहि-अस्ति स्त्रीणां मोक्षोऽविकलकारण. १५त्वात् पुरुषवत् तदसत्; हेतोरसिद्धः, तथाहि-मोक्षहेतु नादि परमप्रकर्षः स्त्रीषु नास्ति परमप्रकर्षत्वात् सप्तमपृथ्वीगमनकारणापुण्यपरमप्रकर्षवत् । यदि नाम तत्र तत्कारणापुण्यपरमप्रकर्षाभावो मोक्षहेतोः परमप्रकर्षाभावे किमायातम् ? कार्यकारणव्याप्यव्यापकभावाभावे हि तयोः कथमन्यस्याभावेऽन्यस्याभावोऽतिम. २० सँङ्गात् इति चेत् ; सत्यम् ; अयं हि तावनियमोस्ति-यद्वेदस्य मोक्षहेतुपरमप्रकर्षस्तद्वेदस्य तत्कारणापुण्यपरमप्रकर्षाप्यस्त्येव, यथा पुंवेदस्य । न च चरमशरीरेण व्यभिचारः; पुंवेदसामान्यापेक्षयोक्तेः। १ विना। २ पुरुषादृष्टकृतः अन्यः संसर्गविशेषो ज्ञानादिभिरात्मनोऽस्तीत्युक्ते आह । ३ संसर्गस्य । ४ पटादिः परः। ५ शानस्य स्वसंविदितत्वाभावे । ६ चेतनत्वसिद्धितया। ७ सुखस्य । ८ अखिलदुःखविवेकात्मकत्वादित्युक्ते घटेन व्यभिचारस्तत्परिहारार्थ चेतनात्मकत्वे सतीत्युक्तम्। ९ चेतनात्मकत्वादित्युच्यमाने खण्ड्यमाननरेण व्यभिचारस्तत्परिहारार्थमखिलदुःस्वविवेकात्मकत्वादित्युक्तम् । १० आत्मस्वभावत्वादित्युच्यमाने दुःखेन व्यभिचारस्तत्परिहारार्थमपेतप्रतिबन्धत्वादित्युक्तम् । ११ अपेतप्रतिबन्धत्वादित्युच्यमाने प्रदीपेन व्यभिचारस्तत्परिहारार्थमात्मस्वभावत्वे सतीत्युक्तम् । १२ लक्षणम् । १३ श्वेतपटः। १४ मोक्षहेतुशानादिपरमप्रकर्षतत्कारणापुण्यपरमप्रकर्षयोः। १५ अकारणस्याव्यापकस्य वा। १६ अकार्यस्याव्यापकस्य वा। १७ घटाभावे त्रैलोक्याभावो भवेत् । १८ अविनाभावः। १९ पुंसि सप्तमपृथ्वीगमनकारणापुण्यप्रकर्षास्ति मोक्षहेतुज्ञानादिपरमप्रकर्षत्वात् । २० व्याप्यो हेतुः। २१ साध्यो व्यापकः। २२ इति पुंसि अनयोाप्यव्यापकभावः सिद्धः सन् स्त्रीषु व्यापकामावे व्याप्याभावं साधयत्येवेति भावः । २३ आत्मना ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy