________________
सू० २।१२] मोक्षस्वरूपविचारः ३२७ परिच्छेद्यस्यानेकधर्माध्यासितवस्तुस्वरूपानेकान्तस्य नयपरिच्छे. कान्ताविनाभावित्वात्।
'आत्मैकत्वज्ञानात्' इत्यादिग्रन्थस्तु सिद्धसाध्यतया न समाधानमर्हति।
न च गुणपुरुषान्तर विवेकदर्शनं निःश्रेयससाधनं घटते प्रकर्ष-५ पर्यन्दावस्थायामप्यात्मनि शरीरेण सहावल्यानान्मिथ्याज्ञानवत् ।
अथ फलोपोगकृतोपात्तकर्मक्षयापेक्षं तत्त्वज्ञानं परनिःश्रेयसस्य साधनम् , तद्नपेक्षं चाऽपरनिश्रेयसस्येत्युच्यते तदप्युक्तिमात्रम् : फलोपभोगस्यौपमिकानोपक्रमिकविकल्पानतिक्रमात् । तस्यौपक्रमिकत्वे कुतस्तदुपक्रमोऽन्यत्र तपोतिशयात्, इति १० तत्त्वज्ञानं तपोतिशयसहायमन्तर्भूततत्त्वार्थश्रद्धानं परनिःश्रेयसकारणमित्यनिच्छतोप्यायातम् । तस्यानोपक्रमिकत्वे तु सदा सद्भावानुपङ्गः। __ यच्च स्वरूपे चैतन्यमात्रेऽवस्थानं मोक्ष इत्युक्तम् : तयुक्तम् । चैतन्यविशेषेऽनन्तज्ञानादिवरूपेऽवस्थानस्य मोक्षत्वसाधनात् ।१५ न हनन्तज्ञानादिकमात्मनोऽस्वरूपं सर्वज्ञत्वादिविरोधात् । प्रधानस्य सर्वज्ञत्वादिस्वरूपं नात्मन इत्यसत्; तस्याचेतनत्वेनरकाशादिवत्तद्विरोधात् । ज्ञानादेरप्यचेतनत्वात् प्रधानस्वभ(भा)वत्वाविरोधश्चेत् ; कुतस्तदचेतनत्वसिद्धिः? 'अचेतना ज्ञानादय उत्पत्तिमत्त्वाद् घटादिवत्' इत्यनुमानाचेत्, न; हेतोरनुभवेनानेका-२० न्तात् , तस्य चेतनत्वेप्युत्पत्तिमत्त्वात्। न चोत्पत्तिमत्त्वमसिद्धम्; परापेक्षत्वाद्बुद्ध्यादिवत् । परापेक्षोसौ बुधध्यवसायापेक्षत्वात् "बुद्ध्यध्यवसितमर्थ पुरुपश्चेतयते" इत्यभिधानात् ।
कालात्ययापदिष्टश्चायं हेतुः; ज्ञानादीनां स्वसंवेदनप्रत्यक्षाच्चेतनत्वप्रसिद्धरध्यक्षवाधितपक्षानन्तरं प्रयुक्तत्वात् । चेतनसंसर्गात्तषां२५ चेतनत्वप्रसिद्धिः, इत्यप्यचर्चिताभिधानम्। शरीरादेरपि तत्प्रसिद्धिप्रसङ्गात् चेतनप्र(त्व)संसर्गाविशेषात् । शरीराद्यसम्भवी तेपां
१ यसः । कथम् ? स चासावने गन्तश्च तस्य । २ प्रकृतिसत्त्वादिगुगयोरभेदाद्गुण इत्युक्ते प्रकृतेाद्या । ३ पुरुषविशेष। ४ भेदभावनाज्ञानम् । ५ विवेकदर्शनस्य । ६ असन्मते तु सम्यग्दर्शनादिकं परमप्रकर्षप्राप्तं शरीरेण सहावस्थ यि न भवति अयोगिचरमसमये एव शरीराभावलक्षणे तत्सद्भावात् । ७ जीवन्मुक्तिः। ८ सकामनिर्जरा अकामनिर्जरा चेति । ९ भेद । १० वर्जने। ११ योगस्य । १२ फलोपभोगश्चेति कृत्वा। १३ सदा मुक्तिप्रसङ्गः। १४ दर्शनेन। १५ अनुभवस्य । १६ अर्थप्रतिबिम्बन । १७ निश्चितम् । १८ आत्मा। १९ अनुभवति ।