SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० सिद्धो हेतुः। न खलु ज्ञानादयो यथा पुरुषे प्रकृष्यमाणाप्रमाणत: प्रतीयन्ते तथा स्त्रीप्वपि, अन्यथा नपुंसके ते तथा स्युः, तथा चास्याप्यपवर्गप्रसङ्गः। संयमस्तु तद्धेतुस्तत्रासम्भाव्य एव; तथाहि-स्त्रीणां संयमो ५न मोक्षहेतुः नियमेनर्द्धि विशेषाहेतुत्वान्यथानुपपत्तेः । यत्र हि संयमः सांसारिकलब्धीनामप्यहेतुः तत्रासौ कथं निःशेषकर्मविप्रमोक्षलक्षणमोक्षहेतुः स्यात् ? नियमेन च स्त्रीणामेव ऋद्धिविशेपहेतुः संयमो नेष्यते, न तु पुरुषाणाम् । यदि हि नियमेन लब्धि. विशेषस्याजनकः संयमः क्वचिदन्यत्राविवादास्पदीभूते मोक्षहेतः १० प्रसिधेत् तदा तदृष्टान्तावष्टम्भेनात्राप्यसौ तथा प्रत्येतुं शक्येत, नान्यथातिप्रसङ्गात् । संयममात्रं तु सदप्यासां न तद्धेतुः तिर्यग्गृ. हस्थादिसंयमवत् । सचेलसंयमत्वाच्च नासौ तद्धेतुर्गृहस्थसंयमवत् । न चायमसिद्धो हेतुः; न हि स्त्रीणां निर्वस्त्रः संयमो दृष्टः प्रवचनप्रति१५पादितो वा । न च प्रवचनामावेपि मोक्षसुखाकाङ्क्षया तासां वस्त्रत्यागो युक्तः, अर्हत्प्रणीतागमोल्लङ्घनेन मिथ्यात्वाराधनाप्राप्तेः । यदि पुनर्नृणामचेलोसौ तद्धेतुः स्त्रीणां तु सचेलः; तर्हि कारणभेदान्मुक्तेरप्यनुषज्येत भेदः स्वर्गादिवत् । देशसंयमिनश्चैवं मुक्तिः प्रसज्यते । तथा च लिङ्गग्रहणमनर्थकम् । सचेलसंयमश्च २० मुक्तिहेतुरिति कुतोऽवगतम् ? खागमाञ्चेत्, न; अस्यास्मान् प्रत्यागमाभासत्वाद् भवतो यज्ञानुष्ठानागमवत् । स्त्रियो न मोक्षहेतुसंयमवत्यः साधूनामवन्द्यत्वाद् गृहस्थवत् । न चात्रीसिद्धो हेतुः, "वरिसंसयदिक्खियाए अजाए अज दिक्खिओ साहू। २५ अभिगमणवंदगणमंसणविणएण सो पुजो ॥" [ ] इत्यभिधानात्। वाह्याभ्यन्तरपरिग्रहवत्त्वाञ्च न तास्तद्वत्यस्तद्वत् । न चायमसिद्धो हेतुः; प्रत्यक्षेणावगतो हि वस्त्रग्रहणादिबाह्यपरिग्रहोऽभ्य १ अविकलकारणत्वादिति । २ स्त्रीषु ज्ञानादयः प्रकृष्यमाणाश्चेत्तर्हि । ३ स्त्रीणां मोक्षहेतुसंयमो विद्यते चेत् । ४ तु पुनः । ५ स्त्रीणां मोक्षहेतुसंयमो विद्यते चेत्तहि । ६ ऋद्धीनाम् । ७ दृष्टान्तत्वमन्तरेण । ८ गृहस्थस्यापि मोक्षः स्यात् स्वसंयमात् । ९ निर्वस्त्रसंयमः। १० अदृष्टलक्षणकारणमेदाद्यथा स्वर्गादेः प्रथमद्वितीयादिप्रकारेण मेदः। ११ सचेलसंयमवत्स्त्रीमुक्तिप्रकारेण । १२ निर्ग्रन्थतालक्षणम् । १३ सितपटस्य । १४ महेश्वराय । १५ अनुमाने । १६ वर्षशतदीक्षितायाः आर्यिकायाः अब दीक्षितः साधुः । अभिगमनवन्दनानमस्कारेण विनयेन स पूज्यः । १७ सम्मुखगमन । २८ गुरुभक्तिपूर्वक । १९ नमस्कार । .१८
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy