________________
३१७
सू० २।१२] मोक्षस्वरूपविचारः प्रमाणमस्ति । आत्मखरूपतास्तीति चेत् । ननु चिद्रूपतात्मनोऽभिन्ना, भिन्ना वा स्यात् ? अभेदे पर्यायमात्रम् 'आत्मा, चिद्रूपता च' इति, तस्य च नित्यत्वाभ्युपगमात् सिद्धसाध्यता। भेदे तु संयोगादिमिरदेशान्तिकत्वम् : तेपामात्मधर्मत्वेपि नित्यत्वाभावात् । गुणगुणिनोश्च तादात्म्याविरोधादियुपरम्यते । ततो५ बुझ्यादिविशेषगुणोच्छेदविशिष्टात्मस्वरूप एव मोक्षस्तत्त्वज्ञानादिति स्थितम् ।
अत्र प्रतिविधीयते । यत्तावदुक्तम्-नवानामात्मविशेषगुणानां सन्तानोत्यन्तमुच्छिद्यते; तत्रात्मनो भिन्नानां वुद्ध्यादिविशेषगुणानामात्मन्येव समवायादिना वृत्त्यसिद्धेः प्रागेवोक्तत्वात् कथ-१० मात्मविशेषगुंणानां सन्तानः सिद्धो यतः हेतोराश्रयासिद्धिर्न स्यात् ? तथा तेषां परेणावसंविदितत्वेनाभ्युपगमात् । ज्ञानान्तरग्राह्यत्वे चानवस्थादिदोपप्रसक्तेः, अज्ञानस्य च सत्त्वाप्रसिद्धेः पुनरप्याश्रयासिद्धत्वम् । आत्मनोऽभिन्नानां तत्साधने तु तस्याप्यत्यन्तोच्छेदप्रसङ्गात् कस्यासौ मोक्षः? कथञ्चिदभेदस्तु नाभ्युपग-१५ म्यते । अभ्युपगमे वा नात्यन्तोच्छेदसिद्धिः इत्यनन्तरं वक्ष्यामः ।
सन्तानत्वं च हेतुः सामान्यरूपम् , विशेषरूपं वा? सामान्यरूपं चेत् ; परसामान्यरूपम् , अपरसामान्यरूपं वा? प्रथमपक्षे गगनादिनानेकान्तः; अत्यन्तोच्छेदाभावेप्यत्र हेतोर्वर्तनात् । सत्तासामान्यरूपत्वे च सन्तानत्वस्य 'सत् सत्' इति प्रत्ययहेतुत्वमेव २० स्थात् न पुनः सन्तानप्रत्ययहेतुत्वम् । अथ विशेषगुणाश्रिता जाँतिः सन्तानत्वम् ; तर्हि द्रव्यविशेष प्रदीपदृष्टान्ते तस्याऽसस्भवात्साधनविकलो दृष्टान्तः । न च सन्तानत्वं परमपरं वा सामान्यं सर्वथा भिन्नं वुद्ध्यादिषु वृत्तिमत्प्रसिद्धम् । तदृत्तेः समवायस्य प्रतिषिद्धत्वात् इति स्वरूपासिद्धत्वम्।
२५ अथ विशेपैरूपम् । तत्राप्युपादानोपादेयभूतवुद्ध्यादिलक्षणक्षपविशेषरूपम्, पूर्वापरसैमानजातीयक्षणप्रवाहमात्ररूपं वा? प्रथमपक्षे सन्तानत्वस्यासाधारणानकान्तिकत्वं तथाभूतस्यास्या
१ नाममात्रम् । २ पराभ्युपगतमोक्षनिराकरणे। ३ मया। ४ तदाधेयत्वं तद्गुणत्वादि । ५ बुद्धयादीनाम् । ६ उच्छेद इत्यन्वयः। ७ वैभाषिकेण । ८ बुद्ध्यन्तर । ९ आदिनेतरेतराश्रयः। १० सन्तानस्य । ११ परेण। १२ असिन्नेव वादे । १३ सत्ताख्यम् । १४ साध्याभावे । १५ किञ्च । १६ द्वितीयविकल्पः । १७ सामान्यम् । १८ किञ्च । १९ सन्तानत्वम् । २० सह। २१ रूपत्वेन सजातीयत्वम् ।