SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ३१८ प्रमेयकमलमार्तण्डे २. प्रत्यक्षपरि० न्यत्राननुवृत्तः । अभ्युपगमविरोधश्च; न खलु परेण वुयादिक्षणोपादानोऽपरोऽखिलो वुझ्यादिक्षणोऽभ्युपगस्यते । अन्यथा मुत्यऽवस्थायामपि पूर्वपूर्ववुद्ध्याधुपादानक्षणादुत्तरोत्तरोपादेयवुयादिक्षणोत्पत्तिप्रसङ्गान्न वुझ्यादिसन्तानस्यात्यन्तोच्छेदः ५ स्यात् । द्वितीयपक्षे तु पाकजपरमाणुरूपादिनानेकान्तः; तथाविधसन्तानत्वस्यात्र सद्भावेप्यत्यन्तोच्छेदाभावात् । विरुद्धश्चायं हेतुः; कार्यकारणभूतक्षणप्रवाहलक्षणसन्तानत्वस्य एकान्तनित्यवद नित्येप्यसम्भवात्, अर्थक्रियाकारित्वस्यानेकान्ते एव प्रतिपादयिष्यमाणत्वात् । १० शब्दविद्युत्प्रदीपादीनामप्यत्यन्तोच्छेदासम्भवात् साध्यवि कलो दृष्टान्तः। न च ध्वस्तस्यापि प्रदीपादेः परिणामान्तरेण स्थित्यभ्युपगमे प्रत्यक्षवाधा; वारि स्थिते तेजसि आसुररूपाभ्युपगमेपि तत्प्रसङ्गात् । अथोष्णस्पर्शस्य भासुररूपाधिकरणतेजोद्रव्याभावे. ऽसम्भवात् तत्रानुभूतस्यास्य परिकल्पनमनुमानतः तर्हि 'प्रदीपादे१५रप्यनुपादानोत्पत्तेरिव अन्त्यावस्थांतोऽपरापरपरिणामाधारत्वमन्तरेण सत्त्वकृतकत्वादिकं न सम्भवति' इत्यनुमानतस्तत्सन्तत्यनुच्छेदः किन्न कल्प्यते? तथाहि-पूर्वापरस्वभावपरिहारावाप्तिस्थितिलक्षणपरिणामवान् प्रदीपादिः सत्त्वात् कृतकत्वाद्वाघटादिवत्। सत्प्रतिपक्षश्च; तथाहि-वुध्यादिसन्तानो नात्यन्तोच्छेद्वान्, २० अखिलप्रमाणानुपलभ्यमानतथोच्छेदत्वात्, य एवं स न तत्त्वेनोपेयो यथा पाकजपरमाणुरूपादिसन्तानः, तथा चायम् , तस्मान्नात्यन्तोच्छेद्वानिति । न च प्रस्तुतानुमानत एव सन्तानोच्छेदप्रतीतेः सर्वप्रमाणानुपलभ्यमानतथोच्छेदत्वमसिद्धम् । सन्तानत्वसाधनस्यासत्प्रतिपक्षत्वासिद्धः, तत्सिद्धौ हि हेतोर्गम२५कत्वम् । कालात्ययापदिष्टत्वं च; अनेनैवानुमानेन बाधितपक्षनिर्देशानन्तरं प्रयुक्तत्वात् । यञ्च तत्त्वज्ञानस्य विपर्ययज्ञानव्यवच्छेदक्रमेण निःश्रेयसहेतु त्वमित्युक्तम् तदप्युक्तिमात्रम् ततो विपर्ययज्ञानव्यवच्छेदक्रमेण धर्माधर्मयोस्तत्कार्यस्य च शरीरादेरभावेपि अनन्तातीन्द्रियाखि३०लपदार्थविषयसम्यग्ज्ञानसुखादिसन्तानस्याभावासिद्धेः । इन्द्रियजज्ञानादिसन्तानोच्छेदसाधने च सिद्धसाधनम् । इन्द्रियाद्य १ दृष्टान्ते प्रदीपे। २ उपादेयः। ३ आदिना गन्धरसादि । ४ कथञ्चिन्नित्यानित्ये । ५ समोरूपेण। ६ उष्णे। ७ अनौ। ८ ई। ९ सन्तानवं हेतुः । १० अभ्युपगम्यः। ११ सन्तानत्वादित्यतः।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy