SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे २. प्रत्यक्षपरिक एवं शब्दाद्वैतज्ञानमपि मिथ्यारूपतया निःश्रेयसाप्रसाध द्रष्टव्यम् । निरस्तं चात्माद्वैतं शब्दाद्वैतं च प्राक्प्रबन्धेनेत्यलमति. प्रेसङ्गेन। कतिपुरुषविवेकोलम्भः स्वरूपे चैतन्यमानेऽवस्थानलक्षण५निःश्रेयसस्य साधनमित्यन्ये । तथाहि-पुरुषार्थसम्पादनाय प्रधान प्रवर्त्तते । पुरुषार्थश्च द्वेधा-शव्दादिविषयोपलब्धिः , प्रकृतिप. रुषविवेकोपलम्भश्च । सम्पन्ने हि पुरुषार्थे चरितार्थत्वात्प्रधान न शरीरादिभावेन परिणमते, विज्ञानं (तं) वा दुष्टतया कुष्टिनीस्त्री वद्भोगसम्पादनाय पुरुष नोपसर्पति; इत्यप्यसाम्प्रतम् ; प्रधाना१० सत्त्वस्य प्रागेवोक्तत्वात् । सति हि प्रधाने पुरुषस्य तद्विवेको पलम्भः स्यात् । अस्तु वा तत्; तथापि पुरुषस्थं निमित्तमनपेक्ष्य तत्प्रवर्तत, अपेक्ष्य वा ? न तावदनपेक्ष्य; मुक्तात्मन्यपि शरीरादिसम्पादनाय तत्प्रवृत्तिप्रसङ्गात् । अथापेक्ष्य प्रवर्त्तते; किं तद पेक्ष्यम् ? विवेकानुपलम्भः, अदृष्टं वा? न तावद्विवेकानुप१५लम्भः; तस्य विवेकोपलम्भविनष्टत्वेन मुक्तात्मन्यपि सम्भवात् । न चीनुत्पत्तिविनाशयोरसत्त्वेन विशेषं पश्यामः । द्वितीयविकल्पोप्ययुक्तः, अदृष्टस्यापि प्रधाने शक्तिरूपतया व्यवस्थितस्योभयत्रांविशेषात् । दुष्टतया च विज्ञातं प्रधानं पुरुषं नोपसर्पतीति चायुक्तम् । २० तस्याचेतनतया 'अहमनेने दुष्टतया विज्ञातम्' इति ज्ञानासम्भवात् । ततः पूर्ववत्प्रवृत्तिरविशेषेणैव स्यात् इत्यलमतिप्रेसङ्गेन । 'तैदी ट्रेष्टुः स्वरूपेऽवस्थानं मोक्षः' इति चाभ्युपगतमेव, विशेषगुणरहितात्मखरूपे तस्यावस्थानाभ्युपगमात् । 'चिद्रू पेऽवस्थानम्' इत्येतत्तु न घटते; अनित्यत्वेन चिद्रूपताया २५ विनाशात् । न चाक्षाद्यन्वयव्यतिरेकानुविधायिन्यास्तस्या नित्यत्वे १ वास्तवभेदसिद्धिप्रकारेण । २ अद्वैतनिराकरणस्य। ३ का । ४ भेदभावनाज्ञानम्। ५ प्रति प्रधानं। ६ भेदभावनाभावः। ७ भेदभावनाया योग्यवस्थायां सम्भवात् । मुक्त्यवस्थायां तु तस्या विनाशात्प्रयोजनाभावात् । ८ किञ्च । ९ विवेकानुपलम्भो नाम विवेकोपलम्भाभावः । कथम् ? विवेकोपलम्भस्यानुत्पत्तिः संसार्यामनि विवेकोपलम्भस्य विनाशो मुक्तात्मनि । १० संसारिमुक्तात्मनोः। ११ पुरुषेण । १२ साङ्ख्यपरिकल्पितमुक्त्युपायनिराकरणेन। १३ उक्तरीत्या मोक्षोपायस्वरूप विचार्यमाणं नास्ति चेन्मा भून्मोक्षस्वरूपं तु स्यादित्युक्ते आह । १४ मुक्त्यवस्थायाम् । १५ आत्मनः। १६ (आत्मनः)। १७ योगेन। १८ स्वरूपे निर्दिष्टमेतत् । १९ योगमते चिद्रूपं बुद्धिः।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy