________________
सू० २।१२] मोक्षस्वरूपविचारः ३१५ ह्यवस्थिते ध्यातर्यतिशयाधायकत्वेन स्यान्न क्षणिकज्ञानमात्रे न च सन्तानापेक्षयाऽतिशयो युक्तः, तस्यैवासत्त्वात्, अविशिष्टाद्विशिष्टोत्पत्तेरयोगाच्च । अविशिष्टाद्धि पूर्वज्ञानादुत्तरोत्तरं सातिशयं कथमुत्पद्येत? तत्कथं योगिनां सकलकल्पनाविकलज्ञानसम्भव इति?
यञ्च 'सन्तानोच्छित्तिनिःश्रेयसम्' इति मतम् । तत्र निर्हेतुकतया विनाशस्योपायवैयर्थ्यमयत्नसिद्धत्वादिति।
अन्ये त्वनेकान्तभावनातो विशिष्टप्रदेशेऽक्षयशरीरादिलामो निःश्रेयसमिति मन्यन्ते। तथाहि-नित्यत्वभावनायां ग्रहोऽनित्यत्वे च द्वेष इत्युभयपरिहारार्थमनेकान्तभावना; इत्यप्यपरीक्षिताभि-१० धानम् ; मिथ्याज्ञानस्य निःश्रेयसकारणत्वायोगात् । अनेकान्तज्ञानं मिथ्यैव विरोधवैयधिकरण्याद्यनेकवाधकोपनिपातात् । खदेशादिषु सत्त्वं परदेशादिषु चासत्त्वम् इतरेतराभावादिष्यते एव । स्वकार्येषु कर्तृत्वं कार्यान्तरेषु चाकर्तृत्वं न प्रतिपिध्यते, यद्यस्यान्वयव्यतिरेकाभ्यामुत्पत्ती व्याप्रियमाणनुपलब्धं तत्तस्य १५ कारणं नान्यस्येत्यभ्युपगमात् । तथा मुक्तावप्यनेकान्तो न व्यावरीत इति स एव मुक्तः संसारी च' इति प्रसक्तम् । तथाऽनेकान्तेप्यनेकान्तप्रसङ्गात् सद्सन्नित्यानित्यादिरूपव्यतिरिक्तं रूंपा. न्तरमपि प्रसज्येतेति।
अन्ये त्वात्मैकत्वज्ञानात्परमात्मनि लयः सम्पद्यते इति ब्रुवते । २० तथाहि-आत्मैव परमार्थसंस्ततोऽन्यत्र भेदे प्रमाणाभावात् । प्रैत्यक्ष हि पैदार्थानां सद्भावस्यैव ग्राहक न भेदस्यत्यविद्याँसमारो पितो मेदः, तेप्यतत्त्वज्ञाः; आत्मैकत्वज्ञानस्य मिथ्यारूपतया निःश्रेयसाऽसाधकत्वात् । तन्मिथ्यात्वं चार्थानां प्रैमाणतो वास्तवमेदप्रसिद्धः।
२५
१ रागादिसहितत्वेन। २ विशुद्धज्ञानोत्पत्तेः। ३ किञ्च । ४ निर्विशेषस । ५ योगाचारस्य । ६ ध्यानादेः। ७ विनाशस्य । ८ जनाः। ९ मोक्षशिलोपरि । १० स्वरूपदेहो वा। ११ आदिशब्देन झानादि । १२ स्नेहः। १३ युक्ता । १४ वैशेषिकेणापि मया। १५ कारणम्। १६ कार्यस्य । १७ दूषणान्तरम् । १८ सत्त्वे सत्त्वमसत्वं चेत्यनेन प्रकारेण । १९ ब्रह्माद्वैतवादिनः। २० प्रवेशः। २१ मोक्षम् । २२ निर्विकल्पकम् । २३ घटापटादीनाम् । २४ हेतोः । २५ मिथ्याशानेन। २६ कल्पितः। २७ घटपटादीनाम् । २८ प्रत्यक्षादेः । २९ परमार्थ ।