________________
३१४
प्रमेयकमलमार्तण्डे २. प्रत्यक्षपरि० एकसन्तानत्वं च अन्त्यज्ञानेने व्यभिचारि । अथ नेष्यत ए. न्त्यज्ञानं सर्वदाऽऽरम्भात् । तथाहि-मरणशरीरज्ञानमपि हानान्तरहेतर्जायदवस्थाज्ञानं च सुषुप्तावस्थाज्ञानस्येति । नन्वेवं मरणश. रीरज्ञानस्यान्तराभवशरीरज्ञानहेतुत्वे गर्भशरीरज्ञानहेतुत्वे ५सन्तानान्तरेपि ज्ञानजनकत्वं किन्न स्थानियतहेतोरभावात ? अथेष्यते एव उपाध्यायज्ञानं शिष्यज्ञानस्य हेतुः। अन्यस्य का भवति ? कर्मवासना नियामिका चेन्न; तस्या ज्ञानव्यतिरेकेणास म्भवात् । तत्तादात्म्ये हि विज्ञानं वोधरूपतया अविशिष्टं बोधान
वोधरूपतेत्यविशेषेण ज्ञानं विद्ध्यात्।। १० सुषुप्तावस्थाज्ञानस्य जाअवस्थाज्ञानं कारणम् ; इत्यप्यसम्माव्यम् ; सुपुप्तावस्थायां च ज्ञानाभ्युपैगमे जाग्रवस्थातो विशेषो न स्यादुर्भयत्रापि खसंविदितज्ञानसद्भावाविशेषात् । मिद्धनाभि तत्वं विशेषः, इत्यप्यसत्; तस्यापि तद्धर्मतया तादात्म्येनाभिः भावकत्वायोगात् । तद्वयतिरेके तु, रूपवेदनौदिपदार्थस्वरूपव्यति १५रिक्तं तत्वरूपं निरूप्यताम् । अभिभवश्व यदि विनाशः; कथं
तत्र ज्ञानस्य सत्त्वं विनाशस्य वा निर्हेतुकत्वम् ? अथ तिरोभावः, न; विज्ञानसत्तैव संवेदनमित्यभ्युपगमे तैस्यानुपपत्तेः। अतः सुषुप्तावस्थायां विज्ञानासत्त्वेनान्त्यज्ञानसद्भावादेकसन्ता.
नत्वं व्यभिचारीति। २० यच्चोच्यते-विशिष्टभावनाभ्यासवशागागादिविनाशः; तदप्यसङ्गतम् ; निर्हेतुकत्वाद्विनाशस्य अभ्यासानुपपत्तेश्च । अभ्यासो
१ बौद्धानां मते योगिनां मरणे चस्मचित्तमुत्तरचित्तं नोत्पादयतीति भावः । २ योगिचरमचित्तन। ३ मया । ४ पूर्व विज्ञानेन विज्ञानान्तरस्य । ५ जननात् । ६ गर्मशरीरशानस्य । ७ ( जाग्रदवस्थाज्ञानवदिति सुष्ठुतरम् ) (?)। ८ जैनमतमङ्गीकृत्य योगं प्रति सौगतेनोक्तम् । ९ मध्यमवशरीरस्य कार्मणस्य । १० बौद्धेन। ११ वैशे. षिकः । १२ शिष्यात् । १३ बौद्धः। १४ वासना ज्ञानरूपैव । १५ अदृष्टं क्रिया च। १६ कथं नियामिका ? मरणशरीरशानादन्तराभवशरीरशानं गर्भशरीरझानं चोत्पद्यते उपाध्यायशानाच्छिष्यज्ञानं चेति । १७ वैशेषिकः। १८ विज्ञामस्य । १९ साधारणम् । २० विशेषरहितम् । २१ हेतोः । २२ सन्तानान्तरेपि । २३ उत्तरम्। २४ पूर्वशानं कर्त। २५ बौद्धेन त्वया। २६ सुषुप्तावस्थाजायदवस्थयोः। २७ सुषुप्तावस्थाजाग्रदवस्थयोः। २८ अतिजाड्येनातिनिद्रया वा। २९ पराभवः । ३० बौद्धानां मते यथा नैर्मल्यादिगुणो ज्ञानस्य तथा मिद्धादिदोषोपि झानस्य धर्म इति। ३१ ज्ञानात् । ३२ मिद्धस्य । ३३ आदिशब्देन विशनसंज्ञासंस्कारा गृह्यन्ते । ३४ सुषुप्तावस्थायाम् । ३५ विज्ञानस्य ( तिरोभावस्य )। ३६ बौद्धेन । ३७ किच'