SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ सू० २।१२] मोक्षस्वरूपविचारः ३१३ सस्योपादानात् । अत्यन्तप्रियबुद्धिविषयत्वमप्यसिद्धम् ; दुःखितायासप्रियवुद्धेरपि भावात् । 'आनन्दं ब्रह्मणो रूपम्' इत्याद्यागमो नित्यसुखसद्भावावेदकः, इत्यप्यसमीचीनम् । तस्यैतदर्थत्वासिद्धेः । आनन्दशब्दो ह्यात्यन्तिकदुःखाभावे प्रयुक्तत्यागौणः । दृष्टश्च दुःखाभावे सुखशब्द-५ प्रयोगः, यथा माराकान्तस्य ज्वरादिसन्तप्तस्य वा तदपाये। किञ्च, आत्मस्वरूपात्तन्नित्यसुखमव्यतिरिक्तम् , तद्व्यतिरिक्तं वा? प्रथमपो आत्मस्वरूपवत् सर्वदा सुखसंवित्तिप्रसङ्गाद्वद्धमुक्तयोरविशेषग्रसङ्गः। अनाद्यविद्याच्छादितत्वान्न स्वप्रकाशानन्दसंवित्तिः संसारिणः; १० इत्यप्यपेशलम् ; आच्छाद्यते प्रकाशस्वरूपं वस्तु, यत्तु प्रकाशखरूपं तत्कथमन्येनाच्छाद्येत? मेघादिना त्वादित्यादेराच्छादनं युक्तम् तस्यातोऽर्थान्तरत्वात्, मूर्तस्य मूर्त्तनाच्छादनापत्तेः (दनोपपत्तेः)। अविद्यायास्तु सत्त्वान्यत्वाभ्यामनिर्वचनीयतया तुच्छस्वभावत्वात् न स्वप्रकाशानन्दाच्छादकत्वम् । तन्नायः १५ पक्षो युक्तः। द्वितीयपक्षोप्ययुक्तः नित्यसुखस्यात्मनोऽर्थान्तरस्य प्रत्यक्षादेः प्रतिपादकस्य प्रतिपिद्धत्वाद्वाधकस्य च प्रदर्शितत्वात् । तन्न परमानन्दाभिव्यक्तिमोक्षः। नापि विशुद्धज्ञानोत्पत्तिः, रागादिमतो विज्ञानात्तद्रहितस्या-२० स्योत्पत्तेरयोगात् । यथैव हि वोधाद्वोधरूपता ज्ञानान्तरे तथा रागादेरपि स्यात्तादात्म्यात् , अन्यथा तादात्स्याभावः स्यात् । न च 'वोधादेव बोधरूपता' इति प्रमाणमस्ति; विलक्षणादपि कार- . गाद्विलक्षणकार्यस्योत्पत्तिदर्शनात् । बोधस्य च बोधान्तरहेतुत्वे पूर्वकालभावित्वं समानजातीयत्वमेकसन्तानत्वं वा न हेतुः, २५ व्यभिचारात् ; तथाहि-पूर्वकालभावित्वं तत्समानक्षेणैः, समानजातीयत्वं च सन्तानान्तरज्ञानैर्व्यभिचारि, तेषां हि पूर्वकालभावित्वे तत्समानजातीयत्वे च सत्यपि न विवक्षितज्ञानहेतुत्वम् । १ अवस्थायाम् । २ आगमे। ३ बद्धः संसारी । ४ ब्रह्मणः सकाशात् । ५ विद्यमानत्वाविद्यमानत्वाभ्याम् । ६ सौगतमाशङ्कय । ७ मोक्षः। ८ पूर्वशानात् । ९ उत्तरशाने । १० बोधस्य रागादिना। ११ रागादिर्यदि न स्यात् । १२ वीजादेः। १३ अङ्कुरादेः। १४ प्रथमस्य । १५ एकात्मत्वम् । १६ उत्तरशानजनकप्राक्तनबोधस्य । १७ पुरुषान्तरबोधैः पूर्वकालभाविमिः। १८ ज्ञानत्वेन समानजावीयत्वम् । १९ पुरुषान्तरबोधैः पूर्वकालभाविभिः । २० पूर्वशानस्य । २१ विवक्षितमुत्तरम् । प्र.क० मा० २७
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy