SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ३१२ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० यतस्तत्र ततस्तदुत्पत्तिः स्यात् ? अर्थाचं योगजधर्मापेक्षान्ता करणसंयोगो विज्ञानं जनयति तच्चापेक्ष्योत्तरोत्तरं ज्ञानम् । तदप्ययुक्तम्, न हि शरीरसम्वन्धानपेक्षं विज्ञानमेवान्तःकरणसंयोगस्य ज्ञानोत्पत्तौ सहकारिकारणं दृष्टम् । न च दृष्टविपक्षी ५शक्यं कल्पयितुमतिप्रसङ्गात् । आकस्मिकं तु कार्य न भवत्येव. अहेतोः सर्वत्र सर्वदा भावप्रसङ्गात् । किञ्च, यथा मुक्तावस्थायामनित्यसुखमतिकस्य नित्यं परि. कल्प्यंते, तथा नित्यत्वधर्माधिकरणं शरीरादिकमपि परिकल्पनीयम् । कार्यत्वात् तस्य कथं नित्यत्वधर्माधिकरणत्वम् दृष्टविरो. १० धादप्रमाणकत्वाच्च ? इत्यन्यत्रापि समानम् । न खलु नित्यसुख साधकत्वेन प्रत्यक्षानुमानागमानां मध्ये किञ्चित्प्रवर्तते, अस्मदा. दीन्द्रियजप्रत्यक्षस्यात्र व्यापारानुपलम्भात् । “योगिप्रत्यक्षं त्वेवं प्रवर्त्ततेऽन्यथा वा' इत्यद्यापि विवादपदापन्नम् । यच्चात्मा सुखखभाव इत्यनुमानं तदपि न नित्यसुखस्वभावता१५साधकम् ; सुखखभावतामात्रस्यैवातः प्रसिद्धः। किञ्च, सुखस्वभावत्वं सुखत्वातिसम्बन्धित्वम् ; तन्नात्मनि सम्भाव्यते गुणे एवास्योपलम्भात् । न ह्येका काचिजातिव्यगुणयोः साधारणोपलभ्यते । अथ सुखाधिकरणत्वम् ; तन्न; अस्य नित्यानित्यविकल्पानुपपत्तेः। तथा सुखत्वस्य सुखस्य वाधिकरण२० तायां तज्ज्ञानस्यापि नित्यानित्यविकल्पः समानः। साधनं च अत्यन्तप्रियवुद्धिविषयत्वमनन्यपरतयोपादीयमानत्वं चानकान्तिकत्वादसाधनम् ; दुःखाभोंवेपि भावात् । अनन्यपरतयोपादीयमानत्वं चासिद्धम्। न ह्यात्माऽन्यार्थ नोपादीयते; सुखार्थ १ नित्यसुख । २ नित्यसुखसंवेदनम् । ३ आत्मान्तःकरणसंयोगो जनयति । ४ किन्तु शरीरसम्बन्धापेक्षं सद्विज्ञानं सहकारिकारणं दृष्टम् । ५ सौगतादेरपि संवेदनस्य क्षणिकत्वादिसिद्धिप्रसङ्गात् । ६ वेदान्तिना भवता। ७ इन्द्रियं च । ८ नित्यसुखे । ९ नित्यसुखग्राहकत्वेन । १० नित्यासुखाग्राहकत्वेन । ११ जाति:सामान्यम् । १२ निश्चीयते । १३ सुखलक्षणे । १४ सुखाधिकरणत्वस्य सुखस्वभावत्वस्य । १५ अन्यलीनतया । १६ वैशेषिकः। १७ नित्यं चेन्मुक्तेतरावस्थाया अविशेषप्रसङ्ग इत्यादि दूषणम् । अनित्यं चेदुत्पत्तिकारणं वाच्यमित्यादि दूषणम् । १८ तथा दूषणान्तरसमुच्चये। १९ आत्मनः। २० दुःखाभावो हि त्यक्तभरस्या. त्यन्तप्रियबुद्धिविषयः अनन्यपरतयोपादीयमानश्च । न त्वसौ सुखस्वभावस्तस्य तुच्छ. रूपत्वात् । २१ अमावस्य निःस्वरूपत्वानैयायिकादिमते । २२ सुखलीनतयाऽई सुखीत्युल्लेखेन ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy