________________
सू० २११२] मोक्षस्वरूपविचारः
ननु तत्त्वज्ञानिनां तत्त्वज्ञानादेव सञ्चितकर्मप्रक्षय इत्यप्यागमोस्ति
“यथैधांसि संमिद्धोग्निर्भस्मसात्कुरुते क्षणात् । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा"
[भगवद्गी० ४।३७ ] इति। ५ तथा च विरुद्धार्थत्वादुभयोरेकत्रार्थे कथं प्रामाण्यम् ? इत्ययुक्तम् । तत्त्वज्ञानस्य साक्षात्तद्विनाशे व्यापाराभावात् । तद्धि कर्मसामर्थ्यावगमतोऽशेषशरीरोत्पत्तिद्वारेणोपभोगात्कर्मणां विन्दाशे व्याप्रियते इत्यग्निरिवोपचर्यते ज्ञानमित्यागमव्याख्यानादविरोधः। न चैतद्वाच्यम्-'तत्त्वज्ञानिनां कर्मविनाशस्तत्त्वज्ञानादितरेपा १० तूपभोगात्' इति; ज्ञानेन कर्मविनाशे प्रसिद्धोदाहरणाभावात् , फलोपभोगातु तत्प्रक्षये तत्सद्भावात् ।
अन्ये तु मिथ्याज्ञानजनितसंस्कारस्य सहकारिणोऽभावाद्विद्यमानान्यपि कर्माणि न जन्मान्तरे शरीराद्यौरम्भकाणीति मैन्यन्ते; तेषामनुत्पादितकार्यस्यादृष्टस्याप्रक्षयानित्यत्वसङ्गः । १५ अनागतयोर्धर्माधर्मयोरुत्पत्तिप्रतिषेधे तत्त्वज्ञानिनो नित्यनैमित्तिकानुष्ठानं किमर्थमिति चेत् ? प्रत्यायपरिहारार्थम् । न च मिथ्याज्ञानाभावे दुष्कर्मणोऽभावात् कस्य परिहारार्थ तदित्यभिधातव्यम्; यतो मिथ्याज्ञानाभावे निषिद्धाचरण निमित्तस्यैव प्रत्यवायस्याभावो न विहिताननुष्ठाननिमित्तस्य,
"अकुर्वन्विहितं कर्म प्रत्यवायेन लिप्यते" [ ] इत्यागमात् । ततस्तदनुष्ठानं तत्परिहारार्थ युक्तम् । तदुक्तम्
"नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया। मोक्षार्थी न प्रवर्त्तत तत्र काम्यनिषिद्धयोः ॥ १॥
[मी० श्लो० सम्वन्धा० श्लो० ११०] २५
२४
१ दीप्तः । २ तथाप्यागमसद्भावे च। ३ आगमयोः। ४ मोक्षोपायलक्षणे। ५ अग्रे वक्ष्यमाणम् । ६ अतत्त्वज्ञानिनाम् । ७ कुतः ?। ८ प्रारब्धशरीरकर्मवदिति । ९ तत्त्वज्ञाने समुत्पन्ने सतीति शेषः । १० भावनारूपस्य । ११ इन्द्रियविषयादेश्च । १२ नैयायिकविशेषाः । १३ धर्माधर्मस्य । १४ ततोऽनुभवनप्रकारेणैव मोक्षोऽभ्युपगन्तव्यः। १५ सति । प्रागुक्तन्यायेन। १६ नरस्य । १७ दुष्कर्म । १८ जनादिना । १९ विप्रवधादि। २० नित्यनैमित्तिकादेः। २१ कर्मणी। २२ काम्यं यागः । २३ निषिद्धं विप्रवधादि । २४ कर्मणोः ।