________________
३१०
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन तु पाचयेत् ॥ २॥ अभ्यासात्पैक्वविज्ञानः कैवेल्यं लभते नरः ।
काम्ये निषिद्धे च परं प्रवृत्तिप्रतिषेधतः ॥ ३॥" ५ 'स्वर्गकामः' इत्याद्यागमजनितकामेन यागाभिलाषेण निवर्स हि काम्यमग्निष्टोमादि । कैवल्यं तु सकलविशेषगुणोच्छेदवि शिष्टात्मस्वरूपं निर्वाणम् । न च विपर्ययज्ञानप्रध्वंसादिक्रमेण तद्विशिष्टात्मस्वरूपनिर्वाणस्य तत्त्वज्ञानकार्यत्वाद नित्यत्वं वाच्यम
यतो विशेषगुणोच्छेदस्यानित्यत्वमापाद्यते, तद्विशिष्टात्मनो वा? १० न तावद्विशेषगुणोच्छेदस्य; अस्य प्रध्वंसोभावरूपत्वात् । कार्य
वस्तुनो ह्यनित्यत्वं प्रसिद्धम् । तद्विशिष्टात्मनश्च वस्तुत्वेपि कार्यत्वाभावान्नानित्यत्वम् । न च वुद्ध्यादिविनाशे गुणिनस्तथाभावो युक्तः तयोरत्यन्तभेदात् । तत्तादात्म्ये त्वयं दोषः स्यादेव ।
अथ मोक्षावस्थायां चैतन्यस्याप्युच्छेदान्न कृतवुईयस्तत्र प्रव१५ र्तन्ते इत्यानन्द्पो मोक्षोऽभ्युपगन्तव्यः
"आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते" [ ] इत्यागमात् । 'आत्मा सुखस्वभावोऽत्यन्तप्रियवुद्धिविषयत्वात्, अनन्यैपरतयोपाँदीयमानत्वाच । यद्यदेवंविधं तत्तत्सुखस्वभावम् यथा वैषयिकं सुखम् , ताँ चात्मा एवंविधः, तस्मात्सुखस्व२० भावः' इत्यनुमानाच्चास्यानन्दस्वभावताप्रतीतिः; इत्यप्यसाम्प्रतम् यतस्तत्सुखं नित्यम् , अनित्यं वा ? न तावदनित्यम्, तत्स्वभावतयात्मनोप्यनित्यत्वप्रसङ्गात् । नित्यं चेत् ; तत्संवेदनमपि नित्यम्,
१ अनुष्ठानः। २ मनुष्यः । ३ विस्तारयेत्। ४ उत्कृष्टविज्ञानः। ५ मोक्षम् । ६ ( मूलपाठस्त्वत्र 'केवलं' इति । अनेन त्रिमात्रिकाक्षरेण छन्दोभङ्गः स्यादिति परं' शब्दो नियोजितः । केवलशब्दस्य परशब्दोर्थः टिप्पण्यां लिखितश्च )। ७ निष्पाद्यमनुष्ठानम् । ८ मिथ्याशान। ९ निस्स्वरूपत्वात् । १० गुणगुणिनोः। ११ गुणगुणिनोः। १२ गुणविनाशे गुणिविनाशलक्षणः। १३ वेदान्ती भास्करीयः । १४ बुद्धेः। १५ विनाशात् । १६ प्रेक्षावन्तः। १७ वैशेषिकेण। १८ आत्मनः। १९ व्यक्तीक्रियते । २० संसारिमुक्तात्मनोः साधारणमनुमानम् । २१ पुत्रादिशरीरेण व्यभिचारपरिहारार्धमत्यन्तपदोपादानम् । २२ आत्मनः । २३ वनिताशरीरेण व्यभिचारपरिहारार्थमनन्यपरतयेत्युक्तम् । २४ स्वप्रधानत्वेनेत्यर्थः । २५ अनन्यपरतयोपादीयमानत्वादिति कोर्थः ? आत्मन आत्मनि लीनतया स्वस्वरूपस्योपादीयमानत्वं ग्राह्यमाणत्वं यस्यात्मन इति । २६ वैषयिकसुखप्रकारेण । २७ संसारावस्थायां मुक्तावस्थायां च ।