________________
३०८
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० नन सन्तानोच्छेदरूपेपि मोक्षे हेतुर्वाच्यो निर्हेतुकविनाशात. भ्युपगमात्; इत्यप्यचोद्यम्, तत्त्वज्ञानस्य विपर्ययज्ञानव्यवच्छेते. क्रमेण निःश्रेयसहेतुत्वोपपत्तेः । दृष्टं च सम्यग्ज्ञानस्य मिथ्या ज्ञानोच्छेदे शुक्तिकादौ सामर्थ्यम् । ननु चौतत्त्वज्ञानस्यापि ५ तत्त्वज्ञानोच्छेदे सामर्थ्य दृश्यते, ज्ञानस्य ज्ञानान्तरविरोधित्वेन मिथ्याज्ञानोत्पत्तौ सम्यग्ज्ञानोच्छेदप्रतीते; इत्यप्ययुक्तम् । यतो नानयोरुच्छेदमात्रमभिप्रेतम् । किं तर्हि ? सन्तानोच्छेदः । यथा च सम्यग्ज्ञानान्मिथ्याज्ञानसन्तानोच्छेदो नैवं मियाज्ञानात्सम्यरज्ञानसन्तानस्य, अस्य सत्यार्थत्वेन वलीयस्त्वात् । निवृत्ते च १० मिथ्याज्ञाने तन्मूला रागादयो न सम्भवन्ति कारणाभावे कार्या
नुत्पादात् । रागाद्यभावे तत्कार्या मनोवाकायप्रवृत्तियावर्तते। तदभावे च धर्माधर्मयोरनुत्पत्तिः । आरब्धशरीरेन्द्रियविषयकार्ययोस्तु सुखदुःखफलोपभोगात्प्रक्षयः। अनारब्धतत्कार्ययोरज्यवस्थितयोस्तत्फलोपभोगादेव प्रक्षयः । तथा चागमः१५ "माभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि” [ ] इति ।
अनुमानं च, पूर्वकर्माण्युपभोगादेव क्षीयन्ते कर्मत्वात् प्रारब्ध. शरीरकर्मवत् । न चोपभोगात्प्रक्षये कर्मान्तरस्यावश्यं भावात्संसारानुच्छेदः, समाधिबलादुत्पन्नतत्त्वज्ञानस्यावगतकर्मसा
मोत्पादितयुगपदशेषशरीरद्वारावाप्ताशेषभोगस्योपत्तिकर्मप्रक्ष२० यात्, भाविकर्मोत्पत्तिनिमित्त मिथ्याज्ञानजनितानुसन्धानविकलत्वाञ्च संसारोच्छेदोपपत्तेः । अनुसन्धानं हि रागद्वेषौ 'अनुसन्धीयते गतं चित्तमाभ्याम्' इति व्युत्पत्तेः । न च मिथ्याज्ञानाभावेऽभिलाषस्यैवासम्भवाद्भोगानुपपत्तिः, तदुपभोगं विना हि कर्मणां प्रक्षयानुपपत्तेः तत्त्वज्ञानिनोपि कर्मक्षयार्थितया प्रवृत्ते२५वैद्योपदेशेनातुरवदौषधाचरणे । यथैव ह्यातुरस्यानभिलषितेप्योषधाचरणे व्याधिप्रक्षयार्थ प्रवृत्तिः, तद्व्यतिरेकेण तत्प्रक्षयानुपपत्तेस्तथात्रोंपि।
१ मिथ्या। २ सम्यग्ज्ञानान्मिथ्याशानामावस्तदभावाद्रागाद्यभावस्तदभावाच्च मनोवाकायप्रवृत्तिरूपप्रयत्नाभावस्तदभावाद्धर्माधर्मयोरभाव इति। ३ द्विचन्द्रादिशानस्य । ४ एकचन्द्रशानस्य । ५ आमूलतः सन्ततिच्छेदे एवाभिप्रायः। ६ स्रग्वनितादिकं सुखहेतुरिति अहिकण्टकादिकं दुःखहेतुरिति च सम्यग्शानात् । ७ सम्वनितादिकं दुःखहेतुरिति शानात् । ८ धर्माधर्मयोः। (बसः)। ९ प्रारब्धं शरीरं येन तच्च तत्कर्म च। १० ध्यान। ११ नुः। १२ पूर्वोपात्त। १३. सम्बध्यते । १४ अनेन पूर्व ममेदृग्विधं दुःखादिकं दत्तमिति । १५ बुद्धिः। १६ तत्त्वशानिनः पुरुषस्य । १७ कर्मफलस्य । १८ कर्मफलोपभोगे।१९ उक्तमेव समर्थयति । २० कर्मफलोपभोगे तत्त्वशानिनः।