________________
सू० २।१२] मोक्षस्वरूपविचारः
३०७ स्पर्शनादिनेन्द्रियेण यद्यसावनुभवेत् ; तर्हि भगवतो मतिज्ञानानुपङ्गः। अथ केवलज्ञानेन; तंत्रापि सर्व भोजनादिकं परशरीरस्थमप्यस्यानुषज्यते । न चात्मशरीरस्थ मेवास्य तन्नान्यदित्यभिधातव्यम् ; भगवतो वीतमोहस्य स्वपरशरीरमति विभागाभावात् ।
यच्चोपचारतोयस्यैकादश परीषहा न सम्भाव्यन्ते तत्र तन्नि-५ पेधपरत्वात् सूत्रस्य, 'एकेनाधिका न दश परीषहा जिने एकादश जिने' इति व्युत्पत्तेः। प्रयोगः-भगवान् क्षुदादिपरीषहरहितोऽनन्तसुखत्वात्सिद्धवत् ।
किञ्च, भोजनं कुर्वाणो भगवान् किल लोकैर्नावलोक्यते चक्षु. षेत्यभिधीयते भवता । तंत्रादर्शनेऽयुक्तसेवित्वादेकान्तमाश्रित्य १० भुत इति कारणम् , वहलान्धकारस्थितभोजनं वा, विद्याविशेषण स्वस्य तिरोधानं वा ? तत्राद्यपक्षे पारदारिकवद्दीनंघद्वा दोषसम्भावनाप्रसङ्गः । अन्धकारस्तु न सम्भाव्यते, तदेहदीत्या तस्य निहतत्वात् । विद्याविशेषोपयोगे चास्य निर्ग्रन्थत्वाभावः। कथं चादृश्याय तस्मै दानं दातृभिर्दीयते ? अथातिशयविशेषः कश्चि-१५ त्तस्य, येन भुञ्जानो नावलोक्यते; तर्हि भोजनामावलक्षण एवास्यातिशयोस्तु किं मिथ्याभिनिवेशेन ? ततो जीवन्मुक्तस्यात्मनोऽनन्तचतुष्टयस्वभावत्वमिच्छता कवलाहाररहितत्वमेवैष्टव्यमित्यलमतिप्रसङ्गेन ।
ननु च 'अनन्तचतुष्टयस्वरूपलाभो मोक्षः' इत्ययुक्तम् बुद्ध्या-२० दिविशेषगुणोच्छेदपत्वात्तस्य । तदुच्छेदे च प्रमाणम्-नबानामात्मविशेषगुणांनां संन्तानोऽत्यन्तमुच्छिद्यते सन्तामत्वात् प्रदीपसन्तानवत् । न चायमसिद्धो हेतुः, पक्षे प्रवर्त्तमानत्वात् । नापि विरुद्धः; सपक्षे प्रदीपादौ सत्त्वात् । नाप्यनैकान्तिकः, पक्षसपक्षवद्विपक्षे परमाण्वादावप्रवृत्तेः। नापि कालात्ययापदिष्टः,२५ विपरीतार्थोपस्थापकयोःप्रत्यक्षागमयोरसम्भवात् । नापि सत्प्रतिपक्षः प्रतिपक्षसाधनाभावात् ।
१ तहिं । २ केवलज्ञानेन तत्राप्यनुभवोस्तीति भावः । ३ ( एकादश जिने इति सूत्रस्य जिननिष्ठैकादशपरीषहाणां निषेधपरत्वात् )। ४ ग्रन्थे। ५ मां दृष्ट्वा कश्चिभोजनं याचिष्यत इति दीनचित्तत्वं दोषो दीनचित्तस्य । ६ व्यापारे । ७ प्रपञ्चेन । ८ बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारलक्षणानाम् । ९ धर्माधर्माभ्यां बुद्धिरुत्पद्यते बुद्धेः संस्कारः संस्कारादिच्छाद्वेषी इच्छाद्वेषाभ्यां प्रयत्नस्तस्मात्सुखदुःखे भवत इति नवानां गुणानां सन्तानः। १० सर्वथा। ११ निये। १२ प्रतिपक्षसाधको हेतुः सत्प्रतिपक्षः।