________________
प्रमेयकमलमार्तण्डे
२. प्रत्यक्षपरि०
स्मरन्तो भोजनपरित्यागेऽसमर्थास्तद्भुञ्जते तदा तदोषविशुद्ध गुरुवचनादात्मानं निन्दन्तः प्रायश्चित्तं कुर्वन्ति । यो तु तत्त्यागे समर्थाः पिण्डविशुद्धावुद्यतमनसो निर्वेदस्य पर काष्ठामापन्ना स्त्यक्तशरीरापेक्षा जितजिव्हा अन्तरायविषयो निपुणमतयस्ते ५स्मरन्तोपि न भुञ्जते।
किञ्च, असौ भोजनं कुर्वाणः किमेकाकी करोति, शिष्यैर्वा परिवतः? यदि एकाकी पेश्वाल्लग्नान् शिष्यान्विनिवार्य श्रावकानां गृहे गत्वा भुङ्क्ते तर्हि दीनः स्यात् । अथ तैः परिवृतः, तर्हि सावद्यप्रसङ्गः। १० किञ्च, असौ भुक्त्वा प्रतिक्रमणादिकं करोति वा, न वा ?
करोति चेत्, अवश्यं दोषवान् सम्भाव्यते, तत्करणान्यथानु. पपत्तेः । न करोति चेत् ; तर्हि भुजिक्रियातः समुत्पन्नं दोषं कथं निराकुर्यात् ? आहारकथामात्रेणापि ह्यप्रमत्तोपि सन् साधुः
प्रमत्तो अवति, नाहन्भुखानोपीति श्रद्धामात्रम् । प्रमत्तत्वे चास्य १५ श्रेणितः पतितत्वान्न केवलभाक्त्वम् ।
किम चासौ भुङ्क्ते-शरीरोपचयार्थम् , ज्ञानध्यानसंयमसंसियर्थ वा, क्षुद्वेदनाप्रतीकारार्थ वा, प्राणत्राणार्थ वा ? न तावच्छरीरोपचयार्थम् ; लाभान्तरायप्रक्षयात्प्रतिसमयं विशिष्टपरमाणु
लाभतस्तत्सिद्धेः। तदर्थं तद्हणे चासौ कथं निर्ग्रन्थः स्यात् २०प्राकृतपुरुषवत् ? नापि ज्ञानादिसिद्ध्यर्थम् ; यतो ज्ञानं तस्याखि
लार्थविषयमक्षयस्वरूपम् , संयमश्च यथाख्यातः सर्वदा विद्यते । ध्यानं तु परमार्थतो नास्ति निर्मनस्कत्वात्, योगनिरोधत्वेनोपचारतस्तत्रास्य सम्भवात् । नापि प्राणत्राणार्थम्, अपमृत्युरहि. तत्वात् । नापि क्षुद्वेदनाप्रतीकारार्थम्, अनन्तसुखवीर्ये भगव२५ त्यस्याः सम्भवाभावस्योक्तत्वात् ।
ननु भगवतो भोजनाभावे कथम् 'एकादश जिने परीषहाः' इत्यागमविरोधो न स्यात् ? तदसत्; तेषां तत्रोपचारेणैव प्रतिपादनात्, उपचारनिमित्तं च वेदनीयर्सद्भावमात्रम् । परमार्थ: तस्तु तत्र तेषां सद्भावे क्षुदादिपरीषहसद्भावाबुभुक्षावद् रोगबध३० तृणस्पर्शपरीषहसद्भावान्महदुःखं स्यात् , तथा च दुःखितत्वानासौ जिनोऽस्मदादिवत् । तथा भोजनं रसनेन शीतादिकं च
१ यतयः । २ पृष्ठे। ३ भगवतो मुक्तिक्रियातो दोष एव न सम्पद्यते इत्युक्ते आह । ४ प्रमत्तो न भवतीति यावत् । ५ प्राकृतो नीचः। ६ आयुषोऽपवर्तरहितत्वात् । ७ जिने। ८ द्रव्यरूपेण । ९ भोजनं रसनेनानुभवेता केवलज्ञानेन वेति विकल्प्य क्रमेण दूषयबाह।