SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ सू० २।१२] कवलाहारविचारः अथाकाहारूपा क्षुन्न भवति, तेन वीतमोहेप्यस्याः सम्भवः, तदप्ययुक्तम्: अनाकाङ्क्षारूपत्वेप्यस्या दुःखरूपतयाऽनन्तसुखे भगवत्यसम्भवात् । तथाहि-यत्र यद्विरोधि वलवदस्ति न तत्राभ्युदितकारणमपि तद्भवति यथाऽत्युष्णप्रदेशे शीतम् , अस्ति च क्षुदुःखविरोधि वलवत् केवलिन्यनन्तसुखम् । तथा यत्कार्य-५ विरोध्यनिवत्यं यत्रास्ति तत्र तदविकलमपि स्वकार्य न करोति यथा श्लेष्मादिविरुद्धानिवर्त्य पित्तविकाराकान्तो न दध्यादि श्लेष्मादि करोति, वेद्यफलविरुद्धाऽनिवर्त्य सुखं च भगवतीति । अस्तु वा वेद्यं तत्र वुभुक्षाफलप्रदायि, तथापि-वुभुक्षातः समवसरणस्थित एवासौ भुङ्क्ते, चर्यामार्गेण वा गत्वा? प्रथमपक्षे १० मार्गस्तेन नाशितः स्यात् । कथं च बुभुक्षोदयानन्तरमाहारासस्पत्तौ ग्लानस्य यथावद्वोधहीनस्य मार्गोपदेशो घटेत ? अथ तदुदयानन्तरं देवास्तत्राहारं सम्पादयन्ति; न; अत्र प्रमाणाभावात् । 'आगमः' इति चेन्न; उभयप्रसिद्धस्यास्याप्यभावात् । खप्रसिद्धस्य भावेपि नातस्तत्सिद्धिः, 'भुक्त्युपसर्गाभावः' इत्यादेरपि प्रमाणभू-१५ तागमस्य भावात् । अथ चर्यामार्गेण गत्वासौ भुते, तत्रापि किं गृहं गृहं गच्छति, एकस्मिन्नेव वा गृहे भिक्षालाभं ज्ञात्वा प्रवतते ? तत्राद्यपक्षे भिक्षार्थ गृहं गृहं पर्यटतो जिनस्याज्ञानित्वप्रसङ्गः। द्वितीयपक्षे तु भिक्षाशुद्धिस्तस्य न स्यात् । कथं चासौ मत्स्यादीन् व्याधलुब्धकप्रभृतिभिः सर्वत्र सर्वदा व्याहन्यमाना-२० प्राणिनस्तेषां पिशितानि च तथाऽशुच्यादींश्चार्थान् साक्षात्कुर्वनाहारं गृह्णीयात् ? अन्यथा निष्करुणः स्यात् । जीवानां हि वधं विष्टादिकं च साक्षात्कुर्वन्तो व्रतशीलविहीना अपि न भुञ्जते, भगवांस्तु व्रतादिसम्पन्नस्तत्साक्षात्कुर्वन् कथं भुञ्जीत ? अन्यथा तेभ्योप्यसौ हीनसत्त्वः स्यात् । २५ यदप्युच्यते-यत्किञ्चिदृष्टं शुद्धमशुद्धं तत्स्मरन्तो यथास्सदायो भोजनं कुर्वन्ति तथा केवली साक्षात्कुर्वनिति; तदप्युक्तिमात्रम्; न ह्यस्मदादीनां परमचारित्रपदप्राप्तेनाशेषज्ञेन भगवता साम्यमस्ति। अस्मदायोपि हि यथा(यदा)कथञ्चित्किञ्चिदशुद्धं वस्तु दृष्टं १ क्षुदादिदुःखं धर्मि । २ यस्य वेदनीयस्य । ३ कार्य क्षुत् । ४ अनन्तसुखम् । ५ न केनापि निराकर्तुं शक्यम् । ६ वेदनीयम्। ७ (नरे)। ८ श्लेष्मादिलक्षणस्य कार्यस्य करणे अविकलमपि । ९ अनन्तसुखम् । १० वेदनीयम् । ११ श्वेतपटस्य । १२ भगवतः। १३ अर्थे । १४ श्वेतपटमते प्रसिद्धस्यागमस्य । १५ जैनागमस्य । १६ केनचित्प्रकारेण मार्गादिगमनलक्षणेन ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy