________________
३०२
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० दृशाः सन्ति पुरुषास्तथा तत्स्थितित्वमपि । कथमन्यथा सप्तधात मलापेतत्वं तच्छरीरस्य स्यात् ? तत्सम्भवे तत्स्थितेरतद्धति कत्वमपि स्यात् ।
तपोमाहात्म्याच्चतुरास्यत्वादिवच्चाभुक्तिपूर्वकत्वे तस्याः को ५विरोधः? दृश्यते च पञ्चकृत्वो भुजानस्य यादृशी तच्छरीर. स्थितिस्तादृश्येव प्रतिपक्षभावनोपेतस्य चतुस्त्रिोकभोजनस्यापि। तथा प्रतिदिनं भुजानस्य यादृशी सा तादृश्येवैकद्व्यादिदिनान्तरितभोजिनोपि । श्रूयते च वाहुबलिप्रभृतीनां संवत्सरप्रमिताहार
वैकल्येपि विशिष्टा शरीरस्थितिः। आयुःकमैव हि प्रधानं तत्स्थिते. १० निमित्तम् , भुक्त्यादिस्तु सहायमात्रम् । तच्छरीरोपचयोपि लाभान्तरायविनाशात्प्रतिसमयं तदुपचयनिमित्तभूतानां दिव्यपरमाणूनां लाभाद् घटते । एवं छद्मस्थावस्थावच्च केवल्यवस्थायामप्यस्य भुक्त्यऽभ्युपगमे अक्षिपक्ष्मनिमेषो नखकेशवृयादिश्चाभ्युपगम्यताम् । तदभावातिशयाभ्युपगमे वा भुक्त्यभावातिशयो१५ प्यभ्युपगन्तव्यो विशेाभावात् ।
ननु मासं वर्षे वा तदभावे तत्स्थितावपि नाऽऽकालं तस्थितिः पुनस्तदोहारे प्रवृत्त्युपलम्भादिति चेत्, कुत एतत् ? आकालं तत्स्थितेरनुपलम्भाच्चेत्, सर्वज्ञवीतरागस्याप्यत एवासिद्धेलाममिच्छतो मूलोच्छेदः स्यात् । दोषावरणयोर्हान्यतिशयोपलम्भेने २० केचिदात्यन्तिकप्रक्षयसिद्धस्तत्सिद्धौ कचिच्छरीरिण्यात्यन्तिको
भुक्तिप्रक्षयोपि प्रसिध्येत् तदुपलम्भस्यात्राप्यविशेषात् । तन्न शरीरस्थितेर्भगवतो भुक्तिसिद्धिः।
अथोच्यते-वेदनीयकर्मणः सद्भावात्तत्सिद्धिः, तथाहि-भगवति वेदनीयं स्वफलदायि कर्मत्वादायुःकर्मवत्, तदप्युक्ति२५मात्रम्; यतोऽतोप्यनुमानात्तत्फलमात्रं सियेन पुनर्भुक्तिलक्षणम् । अथ क्षुदादिनिमित्तवेदनीयसद्भावाद्भुक्तिसिद्धिः, ननु तन्निमित्तं तत्तत्रास्तीति कुतः ? क्षुदादिफलाञ्चदन्योन्याश्रय:सिद्धे हि भगवति तन्निमित्तकर्मसद्भावे तत्फलसिद्धिः, तस्याश्च तनिमित्तकर्मसद्भावसिद्धिरिति ।
१ अन्यादृशौदारिकशरीरस्थितेः। २ अकवल । ३ भोजने विरक्तभावनोपेतस्य । ४ पुष्टिः। ५ वीतरागस्य । ६ अतिशये । ७ कालमभिव्याप्य । मरणपर्यन्तमित्यर्थः । ८ कवलाहारमन्तरेण । ९ तस्य कवलस्य। १० सर्वशसद्भावम् । ( कवलाहारत्वम् ) ११ सर्वशसद्भावोच्छेदः। १२ दोषा रागादिभावकर्म । १३ आवरणं द्रव्यकर्म । १४ दृष्टान्ते । १५ आत्मनि। १६ स्वफलं क्षुदादिदुःखम् । .