________________
३०१
सू० २६१२] कवलाहारविचारः
इत्यभिधानात् । द्वितीयपक्षे तु त्रिदशादिभिर्व्यभिचारः, तेषां कवलाहाराभावेपि देहस्थितिसम्भवात् । अथ 'औदारिकशरीरस्थितित्वात्' इति विशेष्योच्यते । तथाहि-या या औदारिकशरीरस्थितिः सा सा कवलाहारपूर्विका यथास्मदादीनाम् , औदारिकशरीरस्थितिश्च भगवतः, इति न त्रिदशशरीरस्थित्या ५ व्यभिचारः, इत्यप्यसारम् ; तदीयौदारिकशरीरस्थितेः परमौदारिकशरीरस्थितिरूपतयाऽस्मदाद्यौदारिकशरीरस्थितिविलक्षणत्वात् । तस्याश्च केवलावस्थायां केशादिवृद्ध्यभाववद्भुक्त्यभावोप्या. विरुद्ध एव।
कथं चैवं वादिनो भगवत्प्रत्यक्षमतीन्द्रियं स्यात् ? शक्यं हि १० वक्तुम्-तत्प्रत्यक्षमिन्द्रियजं प्रत्यक्षत्वादस्मदादिप्रत्यक्षवत् । तथा सरागोऽसौ वक्तृत्वात्तद्वदेव । न ह्यस्मदादौ दृष्टो धर्मः कश्चित्तत्र साध्यः कश्चिन्नेति वक्तुं युक्तम् , खेच्छाकारित्वानुषङ्गात् । तथा च न कश्चित्केवली वीतरागो वा, इति कस्य भुक्तिः प्रसाध्यते ? यदि चैकत्रं तच्छरीरस्थितेः कवलाहारपूर्वकत्वोपलम्भात्सर्वत्र १५ तथाभावः साध्यते; तर्हि घटादौ सन्निवेशादेवुद्धिमत्पूर्वकत्वोपलम्भात्तन्वादीनामप्यतो वुद्धिमत्पूर्वकत्वसिद्धिः स्यात् । द्विचन्द्रादिप्रत्ययस्य निरालम्वनत्वोपलम्भाच्चाखिलप्रत्ययानां निरालम्वनत्वप्रसङ्गः स्यात् । अथ यादृशं बुद्धिमत्कारणव्याप्तं सन्निवेशादि घटादौ दृष्टं तादृशस्य तन्वादिष्वभावान्नातस्तेषां तत्पूर्वकत्व-२० सिद्धिः, तर्हि यादृशमौदारिकशरीरस्थितित्वमस्मदादौ तद्भुक्तिपूर्वकं दृष्टं तादृशस्य भगवत्परमौदारिकशरीरस्थितावभावान्नातस्तस्यास्तद्धक्तिपूर्वकत्वसिद्धिः । यथा च प्रत्ययत्वाविशेषेपि कस्यचिनिरालम्वनत्वमन्यस्यान्यत्वम् , तथा च तच्छरीरस्थितेस्तत्त्वाविशेषेपि निराहारत्वमितरच्चेष्यतामविशेषात् ।
अथ 'अन्यादृशमौदारिकशरीरस्थितित्वमन्याशाश्च पुरुषा न सन्ति' इत्युच्यते तर्हि मीमांसकमतानुप्रवेशः । अतो यथान्या
१ औदारिकशरीरस्थितित्वात्कवलाहारित्वमेवेति । २ कवलाहारलक्षणः । ३ सरागत्वसेन्द्रियत्वलक्षणः । ४ भगवतः सरागत्वे तत्प्रत्यक्षस्येन्द्रियजत्वे च। ५ अस्सदादौ। ६ अक्रियादर्शिनः कृतवुयुत्पादकत्वम् । ७ सप्तधातुमलोपेतम् । ८ तस्य कवलस्य । ९ औदारिकशरीरस्थितित्वादिति हेतोः । १० कवलस्य । ११ द्विचन्द्रादिप्रत्ययस्य । १२ घटादिप्रत्ययस्य । १३ सालम्बनत्वम् । १४ आहारपूर्वकत्वम् । २५ परमौदारिकम् । १६ अनाहारिणः। १७ मीमांसकमतेपि सर्वशलक्षणोऽन्यादृशः पुरुषो नास्ति ।
प्र. क. मा० २६