SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ सू० २।१२] कवलाहारविचारः ३०३ अथाऽसातवेदनीयोदयात्तत्र तत्सिद्धिः, न; सामर्थ्यवैकल्यात् तस्य । अविकलसामर्थ्य हसातादिवेदनीयं खकार्यकारि,सामर्थ्यवैकल्यं च मोहनीयकर्मणो विनाशात्सुप्रसिद्धम् । यथैव हि पतिते सैन्यनायकेऽसामर्थ्य सैन्यस्य तथा मोहनीयकर्मणि नष्टे भगवत्यसामर्थ्यमघातिकर्मणाम् । यथा च मन्त्रेण निर्विषीकरणे कृते मन्त्रि-५ णोपभुज्यमानमपि विषं न दाहमूच्र्छादिकं कर्तुं समर्थम् , तथा असातादिवेदनीयं विद्यमानोदयमप्यसति मोहनीये निःसामर्थ्यत्वान्न क्षुहुःखकरणे प्रभु सामग्रीतः कार्योत्पत्तिप्रसिद्धः। मोहनीयाभावश्च प्रसिद्धो भगवतः, तीव्रतरशुक्लध्यानानलनिर्दग्धघनघातिकर्मेन्धनत्वात् । यदि च तद्भावेपि तदुदयः स्वकार्य-१० कारी स्यात् ; तर्हि परघातकर्मोद्यात्परान् यष्ट्यादिभिस्ताडयेत् स एव वा परैस्ताड्येत । परघातोयोपि हि संयतानामर्हदवसौनानामस्ति । अथ परमकारुणिकत्वात्तदुदयेपि न परांस्ताडयति उपसर्गाभावाच न च तैस्ताड्यते; तानन्तसुखवीर्यत्वाद्वाधाविरहाच्चासातादिवेदनीयोदये सत्यपि भोजनादिकं न कुर्यात् । मोह-१५ कार्यत्वाच्च करुणायाः कथं तत्क्षये परमकारुणिकत्वं तस्य स्यात् ? किञ्च, कर्मणां यद्युदयो निरपेक्षः कार्यमुत्पादयति; तर्हि त्रिवेदानां कषायाणां वा प्रमत्तादिषूदयोस्तीति मैथुनं भ्रकुट्यादिकं च स्यात् । ततश्च मनसः संक्षोभात्कथं शुक्लध्यानाप्तिः क्षपकश्रेण्यारोहणं वा ? तद्भाघाच्च कथं कर्मक्षपणादि घटेत ? २० नन्वेवं नामायुदयोपि तत्र खकार्यकारी न स्यात् । इत्यप्यसङ्गतम् ; शुभप्रकृतीनां तत्राप्रतिबद्धत्वेन स्वकार्यकारित्वसम्भवात् । यथा हि वलवता राशा स्वमार्गानुसारिणा लब्धे देशे दुष्टा जीवन्तोपि न स्वदुष्टाचरणस्य विधातारःसुजनास्त्वप्रतिहततया खकायस्य विधातारस्तथा प्रकृतमपि । कथं पुनरशुभप्रकृतीनामेवाहति २५ प्रतिबद्धं सामर्थ्यम् न पुनः शुभप्रकृतीनामिति चेत्; उच्यतेअशुभप्रकृतीनामर्हन्नऽनुभागं घातयति न तु शुभानाम् , यतो गुणघातिनां दण्डो नाऽदोषाणाम् । यदि च प्रतिबद्धसामर्थ्यमप्यसातादिवेदनीयं खकार्यकारि स्यात्; तर्हि दण्डकवाटप्रतरादिविधानं भगवतो व्यर्थम् । तद्धि यदा न्यूनमायुर्वेदनीयादिकमधिक-३० स्थितिकं भवति तदाऽनेन कर्मणां समस्थित्यर्थ विधीयते । न चाधिकस्थितिकत्वेन फलदानसमर्थ कर्म उपायशतेनाप्यन्यथा १ इति चेन्न । २ केवलिगुणस्थानान्तानाम् । ३ उदितस्य कर्मणः स्वकार्यकारि. स्वाभावप्रकारेण । ४ दुष्टनिग्रहशिष्टपालनकारिणा। ५ शुभाशुभकर्म । ६ शक्तिम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy