________________
सू० २।१२] प्रकृतिकर्तृत्ववादः
२९५ सतः कार्यत्वासम्भवात्कथञ्चिदसत्कार्यवादे एव चोपादानग्रहणादित्यादेहेतुचतुष्टयस्य विरुद्धता साध्यविपर्ययसाधनात् । तन्नोत्पत्तः प्राकारण(णे)कार्यसद्भावसिद्धिः।
यच्चोक्तम्-भेदानां परिमाणादित्यादिहेतोः कारणं च प्रधानमेवैकं सिध्यति तदप्युक्तिमानम् : "नेदानां परिमाणात्' इत्यस्यै-५ ककारणपूर्वकत्वेनाविनामावासिद्धेः, अदेशकारणवशत्वेप्यस्याविरोधात् । कारणमात्रपूर्वकवेलेव हि तत्लाविनालाबः, दत्साधने च सिद्धसाधनम् ।
'भेदानां समन्वयदर्शनात्' इति चासिद्धम् ; न खलु सुखदुःखमोहसमन्वितं प्रमाणतः प्रसिद्धम् , शब्दादिव्यक्तसाचेतन. १० तया चेतनसुखादिसमन्वयविरोधात् । प्रयोगः-ये चैतन्यरहिता न ते सुखादिसमन्वयाः यथा गगनाम्भोजाद्यः, चैतन्यरहिताश्च शब्दादय इति ।
ननु चैतन्येन सुखादिसमन्वयस्य यदि व्याप्तिः प्रसिद्धा, तदा तनिवर्तमानं शब्दादिपु सुखादिसमन्वयन्वं निवर्तयेत् । न २५ चासौ सिद्धा, पुरुषस्य चेतनत्वेपि लुखादिसमन्वयासिद्धेः इत्यप्यपेशलम् ; स्वसंवेदनलिद्धिप्रस्तावे सुखादिस्वभावतयात्मनः प्रसाधनात् ।
यच्चान्यदुक्तम्-प्रसादतापदैन्यादिकार्योंपलम्भात्प्रधानान्वितत्वसिद्धिः; तदप्ययुक्तम् ; अनेकान्तात् , कापिलयोगिनां हि पुरुषं २० प्रकृतिविभक्तं भावयतां पुरुषमालम्ब्य स्वभ्यस्तयोगानां प्रसादो भवति प्रीतिश्च, अनभ्यस्तयोगानां क्षिप्रतरमात्मानमपश्यतामुद्धेगः, प्रकृत्या जडमतीनां मोहो जायते, न चासौ पुरुषः प्रयानान्वितः परैरिष्टः सङ्कल्पात्प्रीत्याधुत्पत्तिन पुत्पादिति शब्दादिष्वपि समानम् । सङ्कल्पमात्रभावित्वे च प्रीत्यादीनामात्मरूप-२५ ताप्रसिद्धिः, सङ्कल्पस्य ज्ञानरूपत्वात् , ज्ञानस्य चात्मधर्मतया खसंवेदनसिद्धिप्रस्तावे प्रतिपादितत्वात् इत्यलमंतिप्रसङ्गेन ।
अस्तु वा प्रीत्यादिसमन्वयो व्यक्ते, तथापि न प्रधानप्रसिद्धिः, साधनस्यान्वयासिद्धेः। न खलु यथाभूतं त्रिगुणात्मकमेकं नित्यं व्यापि चास्य कारणं साधयितुमिष्टं तथाभूतेन क्वचिद्धेतोः प्रति-३०
१ पर्यायरूपतया । २ परमते सर्वथा सत्कार्य साध्यम् । ३ कथञ्चिदसत्कार्यस्य । ४ शब्दादिश्यतम् । ५ तथा इति मूलपुस्तके पाठः। ६ भिन्नम् । ७ मनसः । ८ सङ्कल्पात्प्रीत्यादिहेतुः शब्दादिरिति । ९ शानस्यात्मधर्मत्वसमर्थनविस्तरेण । १० समन्वयदर्शनादित्यस्य । ११ व्याप्त्यसिद्धः। १२ दृष्टान्ते ।