________________
२९४
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० तंत्राप्यभिव्यक्तावनवस्था । तन्न स्वभावातिशयोत्पत्तिरभिव्यक्तिः।
नापि तद्विषयज्ञानम् ; सत्कार्यवादिनो मते तस्यापि नित्यत्वात् , द्वितीयज्ञानस्यासम्भवाच । एकमेव हि भवतां मते विज्ञानम्-"आसर्गप्रलयादेका वुद्धिः" [ ] इति सिद्धान्त२ स्वीकारात्।
तदुपलम्भावरणापगमोप्यभिव्यक्तिर्न युक्ता; तदावरणस्य नित्यत्वेनापगमासम्भवात् । तिरोभावलक्षणोप्यपगमो न युक्तः, अत्यक्तपूर्वरूपस्य तिरोभावासम्भवात् । द्वितीयोपलम्भस्य चासम्भवात्कथं तदावरणसम्भवो येनास्यापगमोभिव्यक्तिः स्यात् ? न १० ह्यावरणमसतो युक्तं सद्वस्तुविषयत्वात्तस्य ।
वन्धमोक्षाभावश्च सत्कार्यवादिनोऽनुषज्यते। वन्धो हि मिथ्या· ज्ञानात् , तस्य च सर्वदावस्थितत्वेन सर्वदा संवेषां वद्धत्वात्कुतो मोक्षः ? प्रकृतिपुरुषयोः कैवल्योपलम्भलक्षणतत्त्वज्ञानाच्च मोक्षः,
तस्य च सदावस्थितत्वेन सर्वदा सर्वेषां मुक्तत्वात्कुतो वन्धः? १५सकलव्यवहारोच्छेदप्रसङ्गश्च; लोकः स्खलु हिताहितप्राप्तिपरिहारार्थ प्रवर्तते । सत्कार्यवादपक्षे तु न किञ्चिदप्राप्यमहेयं चास्तीति निरीहमेव जगत्स्यात् ।।
यदसत्तन्न केनचित्क्रियते इति चासङ्गतम् ; हेतोर्विपक्षे वाधकप्रमाणाभावेनानेकान्तात् । कारणशक्तिप्रतिनियमाद्धि किञ्चि२० देवासत्क्रियते यस्योत्पादकं कारणमस्ति । यस्य तु गगनाम्भोरुहादेर्नास्ति कारणं तन्न क्रियते । न हि सर्व सर्वस्य कारणमिष्टम् । नापि 'यद्यदसत्तत्तत्क्रियते एवं' इति व्याप्तिरिष्टा । किं तर्हि ? 'यत्क्रियते तत्प्रागुत्पत्तेः कथञ्चिदसदेव' इति । ननु तुल्येप्यस.
त्कारित्वे कारणानां किमिति सर्व सर्वस्यासतः कारणं न स्यादि२५ त्यन्यत्रापि समानम् । समाने हि सत्कारित्वे किमिति सर्व सर्वस्य
संतः कारणं न स्यात् ? कारणशक्तिप्रतिनियमात् 'सदप्यात्मादि न क्रियते' इत्यन्यत्रापि समानम् । प्रतिपादितप्रकारेण सर्वथा
१ स्वभावातिशयेपि । २ साधनेन । ३ प्रागुक्तप्रकारेण ग्रन्थानवस्था । ४ तन्निश्चयम् । ५ निश्चयलक्षणशानापेक्षया निश्चयव्यवस्थापकशानस्य (तद्विषयशानस्य) द्वितीयत्वम् । ६ सांख्यानाम् । ७निश्चयस्य । ८ निश्चयज्ञानस्य । ९ आवरणस्य अव्यक्तरूपं न संभवति-नित्यत्वात् । १० प्राणिनाम् । ११ विवेकख्यातिलक्षणादेः । १२ बन्धमोक्षलक्षणस्य । १३ परमते दध्यादिकार्य धर्मि न केनचित्क्रियते । १४ असन्नपि क्रियत इत्यसिन् । १५ खरविषाणादेः । १६ आत्मादेः । १७ असत्कार्यवादपक्षेपि ।