SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ २९६ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० वन्धः सिद्धः। नापि यदात्मकं कार्यमुपलभ्यते कारणेनाप्यवश्यं तदात्मना भाव्यम् , अन्यथा महदादौ हेतुमत्वानित्यत्वाव्यापित्वादिधर्मोपलम्भात् प्रधानेपि ताद्रूप्यप्रसिद्धिप्रसङ्गा तोविरुद्ध. तानुपङ्गः। ५ यच्चेदं निदर्शनमुक्तम्-'यथा घटशरावादयो मृजातिसमन्विताः' इति तदप्यसङ्गतम् ; साध्यसाधनविकलत्वादस्य । न हि मृत्त्वसुवर्णत्वादिजातिनित्यनिरंशव्याप्येकरूपा प्रमाणतः प्रसिद्धा येन तदात्मककारणसम्भूतत्वं तत्समन्वितत्वं च प्रसि द्ध्येत्, प्रतिव्यक्ति तस्याः प्रतिभासदाझेदसिद्धेः । विस्तरेण १० चास्याः सियभावं सामान्यविचारप्रस्तावे प्रतिपादयिष्याम इत्यलमतिविस्तरेण । तथा 'समन्वयात्' इत्यस्यानेकान्तः; चेतनत्वभोक्तृत्वादिधमैः पुरुपाणाम् , प्रधानपुरुपाणां च नित्यत्वादिधर्मैः समन्वितत्वेपि तथाविधैककारणपूर्वकत्वानभ्युपगमात् ।। १५ एतेन शक्तितः प्रवृत्तेरित्याद्युप्यनैकान्तिकत्वादिदोषदुष्टत्वादेककारणपूर्वकत्वासाधनमित्यवसातव्यम् । तथा हि-प्रेक्षावत्कारणमेतेभ्यः प्रसाध्यते, कारणमात्रं वा ? प्रथमविकल्पे अनेकान्तः, विनापि हि प्रेक्षावता का स्वहेतुसामर्थ्यप्रतिनियमात्प्रतिनियत कार्यस्योत्पत्त्यविरोधात् । न च प्रधान प्रेक्षावद्युक्तं तस्याचेतन२० त्वात् प्रेक्षायाश्च चेतनापर्यायत्वात् । अथ कारणमात्रं साध्यते, तर्हि सिद्धसाध्यता। न ह्यस्माकं कारणमन्तरेण कार्यस्योत्पादोऽभीष्टः। कारणमात्रस्य च 'प्रधानम्' इति संज्ञाकरणे न किञ्चिद्विरुध्यतेऽर्थभेदाभावात्। किञ्च, शक्तितः प्रवृत्तेरित्यनेन यदि कथंश्चिद्व्यतिरिक्तशक्ति३० योगिकारणमात्रं साध्यते; तदा सिद्धसाध्यता । अथ व्यतिरिक्त १ सत्त्वादि । २ समन्वयादिति हेतुर्नित्यत्वादिधर्मोपेते प्रधाने साध्ये प्रयुक्तोऽनित्यत्वादिधर्मोपेतप्रधानप्रसाधनाविरुद्धः । ३ सा नित्यनिरंशव्याप्येकरूपजातिः । ४ तया नित्यनिरंशव्याप्येकरूपजात्या। ५ नित्यनिरंशव्याप्येकरूपजातिनिराकरणविस्तरेण। ६ नित्यनिरंशव्याप्येकरूपजात्या। ७ हेतोः। ८ निरंशत्वादिमिश्च । ९ परेण । १० हेतुद्वय निराकरणपरेण ग्रन्थेन । ११ हेतुत्रयमपि । १२ नित्यत्वमेषां यतः। १३ हेतुभ्यः। १४ अकृष्यभूरुहादिकं प्रेक्षावत्कारणमन्तरेणापि दृश्यतेऽतः सर्व प्रेक्षावत्कारणपूर्वकं वा नेति सन्दिग्धानेकान्तः। १५ कारणसामान्यम् । १६ जनानाम् । १७ असाभिः कारणमात्रं भवद्भिः प्रधानं प्रतिपाद्यते इत्यत्र । १८ द्रव्यस्वभावेन। १९ कार्यनिष्पादने ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy