SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ २९२ प्रमेयकमलमार्त्तण्डे [ २. प्रत्यक्षपरि० दिना विभक्तरूपेण मध्यावस्थावत्सन्ति, तर्हि तेषां किमुत्पाद्यमस्ति येन तानि कारणैः क्षीरादिभिर्जन्यानि स्युः । तथा च प्रयोगःयेत्सर्वाकारेण सत्तन केनचिजन्यम् यथा प्रधानमात्मा वा, सच्च सर्वात्मना परमते दध्यादीति न महदादेः कार्यता । नापि प्रधानस्य ५ कारणता; अविद्यमान कार्यत्वात् । यदविद्यमान कार्य तन्न कारणम् यथात्मा, अविद्यमान कार्य च प्रधानमिति । क्षीराद्यवस्थायामपि दध्यादीनां पश्चादिवोपलम्भप्रसङ्गश्च । अथ कथञ्चिच्छक्तिरूपेण सत्कार्यम् ; ननु शक्तिर्द्रव्यमेव तद्रूपतया सतः पर्यायरूपतया चासतो घटादेरुत्पत्त्यभ्युपगमे जिनपतिमतानुसरणप्रसङ्गः । १० किञ्च तच्छक्तिरूपं दध्यादेर्भिन्नम्, अभिन्नं वा ? भिन्नं चेत्; कथं कारणे कार्यसद्भावसिद्धि: ? कार्यव्यतिरिक्तस्य शक्याख्यपदार्थान्तरस्यैव सद्भावाम्युपगमात् । आविर्भूत विशिष्टर सादिगुणोपेतं हि वस्तु दध्यादि कार्यमुच्यते । तच्च क्षीराद्यवस्थायामुपलब्धिलक्षणप्राप्तानुपलब्धेर्नास्ति । यच्चास्ति शक्तिरूपं तत्कार्यमेव न भवति । १५ न चान्यस्य भावेऽन्यदस्त्यतिप्रसङ्गात् । अथाभिन्नम् ; तर्हि दध्यादेर्नित्यत्वात्कारणव्यापारवैयर्थ्यम् । , अभिव्यक्तौ कारणानां व्यापारान्न वैयर्थ्यम्; इत्यप्यसत् यतोऽभिव्यक्तिः पूर्व सती, असती वा ? सती चेत्; कथं क्रियेत ? अन्यथा कारकव्यापारानुपरमैः स्यात् । अथासती; तथाप्याकाश२० कुशेशयवत्कथं क्रियेत ? असदकरणादित्यभ्युपेंगेमाच्च । सर्वस्य सर्वथा सत्त्वेन च कार्यत्वासम्भवादुपादानपरिग्रहोप न प्राप्नोति । सर्वसम्भवाभावोपि प्रतिनियतादेव क्षीरादेर्दध्यादीनां जन्मोच्यते । तच्च सत्कार्यवादपक्षे दूरोत्सारितम् । शक्तस्य शक्यकरणादिति चात्रासम्भाव्यम्; यदि हि केनचित् किञ्चि२५ निष्पाद्येत तदा निष्पोदकस्य शक्तिर्व्यवस्थाप्येत निष्पद्यस्य च करणं नान्यथा । कारणभावोप्यर्थानां न घटते कार्यत्वाभावादेव । १ दध्यवस्थावत् । २ दध्यादि धर्म केनचिज्जन्यं न भवति पूर्वमेव सर्वकारेण सत्त्वादित्युपरिष्टाद्योज्यम् । ३ इति = अनुमानात् । ४ प्रधानं कस्यचित्कारणं न भवति । ५ दध्यादिकार्य धर्म शक्तिरूपे कारणे नास्ति ततो भिन्नत्वात् । ६ ततो भिन्नत्वं स्यात्कारणे विद्यमानत्वं च स्यादिति सन्दिग्धानैकान्तिकत्वे सत्याह । ७ शक्तिरूपस्य । ८ व्यक्तिरूपं दध्यादिकार्यम् । ९ घटस्य भावे पटस्य भावप्रसङ्गात् । १० विद्यमानापि क्रियमाणा चेत्। ११ अविश्रान्तिः । १२ परेणैव । १३ पदार्थस्य । १४ जैनैः । १५ कारणस्य । १६ कार्यस्य । १७ निष्पाद्यनिष्पादकभावाभावे शक्तिः करणं वा न व्यवस्थाप्यते । १८ कार्यस्य सर्वथा सत्त्वात् । १९ कारणापेक्षया ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy