________________
सू० २।१२] प्रकृतिकर्तृत्ववादः २९१ न्यथाभावलक्षणपरिणामोपपत्तेः । नित्यैकान्तता तु तस्य व्याहन्येत । अत्र हि नैकदेशेन तत्यागो निरंशस्यैकदेशाभावात् । नापि सर्वात्मना; नित्यत्वव्याघातात् ।। किंच, प्रवर्त्तमा॑नो निवर्तमानश्च धो धर्मिणोऽर्थान्तरभूतो वा स्थात्, अनर्थान्तरभूतो वा? यद्यर्थान्तरभूतः: तर्हि धर्मी तद्-५ वस्थ एवेति कथनसौ परिणतो नाम ? न ह्यान्तरभूतयोरर्थयोरुत्पाद विना सत्य विचलितात्मनो वस्तुनः परिणामो भवति, अन्यथाऽऽत्मापि परिणामी स्यात् । तत्सम्बद्धयोर्धमेयोरुत्पादविनाशात्तस्य परिणामः, इत्यप्यसुन्दरम् ; धर्मिणा सदसतोः सम्बन्धाभावात् । सम्बन्धो हि धर्मस्य सतो भवेत् , असतो वा ? १० न तावत्सतः; स्वातन्त्र्येण प्रसिद्धाशेपखभावसम्पत्तेरनपेक्षतया क्वचित्पारतन्त्र्यासम्भवात् । नाप्यसतः; तस्य सर्वोपाख्यांविरहलक्षणतया क्वचिदप्याश्रितत्वानुपपत्तेः । न खलु खरविपणादिः क्वचिदाधितो युक्तः।नच प्रवर्त्तमानाप्रवर्त्तमानधर्मद्वयव्यतिरिक्तो धर्मी उपलब्धिलक्षणप्राप्तो दर्शनपथप्रस्थायी कस्यचिदिति । अतः१५ स तादृशोऽसद्व्यवहारविषय एव विदुपाम् । अथानान्तरभूतः; तथाप्येकस्माद्धर्मिस्वरूपाव्यतिरिक्तत्वात्तयोरेकत्वमेवेति कथं परिणामो धर्मिणः, धर्मयोर्वा विनाशप्रादुर्भावौ धर्मिस्वरूपवत् ? धर्माभ्यां च धर्मिणोऽनन्यत्वाद्धर्मखरूपवदपूर्वस्योत्पादः पूर्वस्य विनाश इति नैव कस्यचित्परिणामः सिध्यति । तस्मान्न परिणाम २० वशादपि भवतां कार्यकारणव्यवहारो युक्तः।
यच्चेदमुत्पत्तेः प्राकार्यस्य सत्त्वसमर्थनार्थमसद्करणादिहेतुपवकमुक्तम् । तद् असत्कार्यवादपक्षेपि तुल्यम् । शक्यते वेवमप्यभिधातुम्-'न सद्करणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् ।' न सत्कार्यमिति २५ सम्बन्धः।
किञ्च, सर्वथा सत्कार्यम्, कथञ्चिद्वा? प्रथमपक्षोऽसम्भाव्यः; यदि हि क्षीरोदौ दध्यादिकार्याणि सर्वथा विशिष्टरसवीर्यविपाका
१ युवावस्थायाः। २ प्रधानस्य । ३ पूर्वरूपत्यागः। ४ उत्तरपरिणामलक्षणः । ५ पूर्वपरिणामलक्षणः। ६ पुरुषादेः। ७ सा अवस्था यस्य । पूर्वावस्थास्थः । ८ नित्यस्य । ९ प्रधानस्य । १० अभिन्नत्वात् । ११ पारतन्यं हि सम्बन्ध इति वचनात् । १२ उपाख्या स्वभावः । १३ धर्मिधर्मयोः । १४ धर्मयोर्विनाशप्रादुर्भावा धर्मिणो न भवत इति साध्यो धर्मिणोऽनन्तरत्वात् । १५ धभी उत्पादविनाशवान् उत्पादविनाशरूपधर्माभ्यामभिन्नत्वाद्धर्मस्वरूपवत् । १६ सकाशात् । १७ सर्वेभ्यः कारणेभ्यः। १८ कारणे। १९ आदिना नवनीततक्रादि।