________________
२८८
प्रमेयकमलसार्तण्डे २. प्रत्यक्षपरि० यदि चासदेव कार्य सर्वस्मात्तृणपांशुलोष्ठादिकात्सर्या सुवर्णरजतादि कार्य स्यात् , तादात्स्यविगेमस्य सर्वस्मिन्नविशिष्यत्वात न च सर्व सर्वतो भवति तस्मात्तत्रैव तस्य सद्भावासिद्धिः।
ननु कारणानां प्रतिनियंतेष्वेव कार्येषु प्रति नियताः शक्तयः। ५ तेन कार्यस्यासत्वाविशेषेपि किञ्चिदेव कार्य कुर्वन्ति इत्यय त्तरम्, शक्ता अपि हि हेतवः शक्यक्रियमेव कार्य कर नाशक्यक्रियम् । यच्चासत्तन्न शक्यक्रिय यथा गगनास्भोरुहम असच्च परमते कार्यमिति।
वीजादेः कारणभावाञ्च सत्कार्य कार्यासत्त्वे तदयोगात । १० तथाहि-न कारणभावो वीजादेः अविद्यमानकार्यत्वात्खरविषा णवत् । तत्सिद्धमुत्पत्तेः प्राकारणे कार्यम् । तच्च कारणं प्रधानमेवेत्यावेदयति हेतुपञ्चकात्"भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥"
[सांख्यका० १५] लोके हि यस्य कर्ता भवति तस्य परिमाणं दृष्टम् यथा कुलालः परिमितान्मृत्पिण्डात्परिमितं प्रस्थग्राहिणमाढकग्राहिणं च घटं करोति । इदं च महदादि व्यक्तं परिमितं दृष्टम्-एका वुद्धिः, एकोऽहङ्कारः, पञ्च तन्मात्राणि, एकादशेन्द्रियाणि, पञ्चभूता२० नीति । अतो यत्परिमितं व्यक्तमुत्पादयति तत्प्रधानमित्यवगमः। __ इतश्चास्ति प्रधानं मेदानां समन्वयदर्शनात् । यजातिसमन्वितं हि यदुपलभ्यते तत्तन्मयकारणसम्भूतम् यथा घटशरावादयो भेदा मृजातिसमन्विता मृदात्मककारणसम्भूताः,
सत्त्वरजस्तमोजातिसमन्वितं चेदं व्यक्तमुपलभ्यते। सत्वस्य हि २५प्रसादलाघवोद्धर्षप्रीत्यादयः कार्यम् । रजसस्तु तापशोषोद्वेगा
दयः । तमसश्च दैन्यबीभत्सगौरवादयः । अतो महदादीनां प्रसाददैन्यतापादिकार्योपलम्भात्प्रधानान्वितत्वसिद्धिः।
१ तर्हि । २ अमावस्य । ३ उपादानेऽनुपादाने च । ४ कारणे । ५ तदुपादाने। ६ शक्यक्रियेषु। ७ परमते कार्य धर्मि शक्यक्रियं न भवति असत्त्वादिति शेषः। ८ महदादि। ९ महदादीनाम् । १० कार्यस्य । ११ महदादिव्यक्तमेककारणपूर्वक परिमितत्वाद् घटादिवत् । १२ महदादिव्यक्तमेककारणसम्भूतमेकस्वरूपान्वितत्वाद्वा घटपटीशरावोदञ्चनादिवत् । १३ उत्सव । १४ महदादिव्यक्तस्य ।