________________
सू० २।१२] प्रकृतिकर्तृत्ववादः २८७ त्पत्तिमत्त्वात् । यथा च प्रधानपुरुयौ दिवि चान्तरिक्षेऽत्र सर्वत्र व्यापितया वर्तते न तथा व्यक्तम् । यथा च संसारकाले त्रयोदशविधेन बुधऽहकारेन्द्रियलझमेन संयुक्तं सूक्ष्मशरीरादिकं व्यक्तं संसरति, लैवनव्यक्तं तक विभुत्वेन सक्रियत्वायोगात् । वुयहङ्कारादिभेदेन छानेकविध वतन्, नायतम् तस्यैकस्यैव ५ सतो लोकत्रयकारणत्वात् । आश्रितं च व्यकम् , यद्यलादुत्पद्यते तस्य तदानितत्वात् । ल लेवलव्यक्तम् तस्याकार्यत्वात् । लिङ्गं च 'लयं गच्छति' इति हत्या, प्रलयकाले हि भूतानि तन्मात्रेयु लीयन्ते, तन्मात्राणीन्द्रियाणि चाहङ्कारे, अहङ्कारो वुद्धो, बुद्धिश्च प्रधाने । न चाव्यक्तं क्वचिददि लयं गच्छतीति तस्याविद्यमान-१० कारणत्वात् । सावयवं च व्यक्तम् शब्दस्पर्शरूपरसगन्धात्मकैरवयवैर्युक्तत्वात् । न त्वेवमव्यक्तम् प्रधानात्मनि शब्दादीनामनुपलब्धः। यथा च पितरि जीवति पुत्रो न स्वतन्त्रो भवति तथा व्यक्तं सर्वदा कारणायत्तत्वात्परतन्त्रम् । न त्वेवमव्यकं तस्य नित्यमकारणाधीनत्वत्।
ननु प्रधानात्मनि कुतो महदादीनां सद्भावसिद्धिर्यतः प्रागुत्पत्तेः लदेव कार्यमिति चेत् ।
"असदकरणादुपादानग्रहमालसम्मवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् ॥”
[सांख्यका०९] २० इति हेतुपञ्चकात् । यदि हि कारणात्मनि प्रागुत्पत्तेः कार्य नाभविष्यत्तदा तन्न केनचिदकरिष्यत ! यदसतन्न केनचिन्त्रिपते यथा जगनमोहम्, अल प्रभुत्पन्तः परमते कार्यमिति । क्रियते च तिलादिमित्तैलादिकार्यम् , तलातच्छत्तितः प्रागपि सत्, व्यक्तिरूपेण तु कापिलैरपि प्राज्ञ सत्त्वस्यानिष्ट-२५ त्वात्।
यदि चासद्भवेत्कार्य तर्हि पुरुषाणां प्रतिनियतोपादानग्रहणं न स्यात् । यथाहि-शालिबीजादिषु शाल्यादीनामसत्त्वं तथा कोद्रववीजादिष्वपि । तथा च कोद्रववीजादयोपि शालिफलार्थिभिरुपादीयेरन् । न चैवम् , तस्मात्तत्र तत्कार्यमस्तीति गम्यते। ३०
१ प्रवर्तते। २ गच्छति। ३ व्यापकत्वेन । ४ तिरोभावम्। ५ परमते प्रागुत्पत्तः कार्य धमि, न केनचित्क्रियते इति साध्यो धर्म:-असत्त्वात् । ६ जैनादिमते। ७ मृत्पिण्डे घटो नास्ति पटोपि नास्ति तदा मृत्पिण्डो घटस्योपादानं पटस्य न, तस्य तु तन्तव एवेति नियतोपादानम् । ८ शाल्यादि ।