________________
२.८४
प्रमेयकमल मार्त्तण्डे [ २० श्रत्यक्षपरि०
ज्ञानस्मृतयो वितनुकरणाः पुरुषाः सन्ति, तस्यैव सवैथाऽप्रसिद्धः । सिद्धौ वा स्वकृतकर्मवशाद्विशिष्टशानान्तरेषु (नरो) त्प तेस्तेषां कथं वितनुकरणत्वं प्रलुप्तज्ञानस्मृतित्वं वा ? सन्दिग्धविपक्षेव्यावृत्तिकत्वादनैकान्तिकश्च हेतुः ।
५ किञ्च, अन्योपदेशपूर्वकत्वमात्रे साध्ये सिद्धसाध्यता; अनादेर्व्यवहारस्याशेषपुरुषाणामन्योपदेशपूर्वकत्वेनेष्टत्वात् । ईश्वरोपदेशपूर्वकत्वे तु साध्येऽनैकान्तिकता, अन्यर्थेपि तत्सम्भवात् । साध्यविकलता च दृष्टान्तस्य । न चास्योपदेष्टृत्वसम्भवो विमुँखत्वान्मुक्तात्मवत् । तच्च वितनुकरणतयोपगमात्प्रसिद्धम् । १० 'स्थित्वा प्रवृत्तेः' इति चेश्वरेणैवानैकान्तिकम्, स हि क्रमवकार्येषु स्थित्वा प्रवर्त्तते न च चेतनान्तराधिष्ठितोऽनवस्था प्रसङ्गात् इति ।
अनयैव दिशा 'सप्तभुवनान्येकबुद्धिमन्निर्मितानि एकवस्त्वंन्तर्गतत्वादेकावसथान्तर्गतापवरकवत्' इत्यादिपर की यप्रयोगोऽ१५ भ्यूह्यः । न कावसथान्तर्गतानामपवर कादीनामेकसूत्रधारनिर्मितत्वनियमः येनेश्वरः सकलभुवनैकसूत्रधारः सिद्ध्येत्, अनेकसूत्रधारनिर्मितत्वस्याप्युपलम्भात् ।
"
एकाधिष्ठाना ब्रह्मादयः पिशाचान्ताः परस्परातिशयवृत्तित्वात् इह येषां परस्परातिशयवृत्तित्वं तेषामेकायत्तता दृष्टा २० यथेह लोके गृहग्रामनगर देशाधिपतीनामेकस्मिन् सार्वभौमनरपतौ, तथा भुजगरक्षोयक्षप्रभृतीनां परस्परातिशयवृत्तित्वं च तेन मन्यामहे तेषामेकस्मिन्नीश्वरे पारतव्यम्; इत्यसम्यक् अत्र हि 'ईश्वराख्येनाधिष्ठाय के नैकाधिष्ठानाः' इति साध्येऽनैकान्तिकता हेतोर्विपर्यये बाधकप्रमाणाभावात् प्रतिबन्धसिद्धेः । दृष्टान्तस्य च २५ साध्यै विकलता । 'अधिष्ठायकमात्रेण साधिष्ठानाः' इति साध्ये सिद्धसाध्यता, स्वर्निकायस्वामिनः शक्रादेर्भवान्तरोपात्ताऽदृष्टस्य चाधिष्ठायकतयाभ्युपगमात् ।
13
१ प्रलयकालसमये एव न तु पश्चात् । २ परोपदेशरहिते मैथुनादिव्यवहारवति पुंसि । ३ ( हेतो: ) । ४ ईश्वरोपदेशं विनापि । ५ व्यवहारे प्रत्यर्थनियतत्वस्य :६ पुत्रादीनां मात्राद्युपदेशपूर्व कश्वेनेश्वरोपदेशपूर्वकत्वाभावात् । ७विगतमुखखात् । ८ साधनम् । ९ आकाश । १० मन्दिर । ११ ईश्वराश्रिताः कार्यकरणे । १२ सन्दिग्धानैकान्तिकता । १३ विपक्षे = कदाचित्स्वतन्त्रेषु गृहग्रामनगरदेशाधिपतिषु । १४ ईश्वराख्येनंकाधिष्ठायकेन परस्परातिशयवृत्तित्वस्याविनाभावासिद्धेः । १५ सार्वमौमनरपतौ ईश्वरप्रेरणत्वासिद्धेः ।