SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ सू० २११२] प्रकृतिकर्तृत्ववादः २८५ ततो महेश्वरस्याशेपजगत्कर्तृत्वप्रसाधकस्यानवद्यप्रमाणस्यासम्भवात् कुतोऽनादिमुक्तत्वसिद्धिर्यतोऽनाद्यशेपज्ञत्वमस्य स्यात् प्रयोगः-क्षित्यादिकं नैकैकस्वभावभवपूर्वकं विभिन्नदेशकालाकारत्वात् , यदित्थं तदित्थम् यथा घटपटमकुटशकटादि, विभिन्नदेशकालाकारं चेदम् , तस्मान्नकै कस्वभावभावपूर्वक-५ मिति ! न चेदसलिद्धं साधनम् ; उर्वीपर्वततर्वादो धर्मिणि विभिबदेशकालाकारत्वस्य सुप्रसिद्धत्वात् । नाप्यनैकान्तिकं विरुद्धं वा विपक्षस्यैकदेशे तत्रैव वा वृत्तेरभावात् । नन्वेकस्याप्यनेककार्यकरणकुशलस्य कर्तुर्विचित्रसहकारिसानिध्ये विचित्रकार्यकारित्वं दृश्यते, अतोऽनेकान्तः; इत्यप्यनुपप-१० नम् । तत्राप्येकखभावत्वस्यासिद्धेः, स्वरूपममेदयंतां सहकारित्वस्थासम्भवप्रतिपादनात् । नापि कालात्ययापदिष्टम् । प्रत्यक्षागमाभ्यां पक्षस्यावाध्यमानत्वात् । न हि क्षित्यादौ विचित्रकार्ये प्रत्यक्षेणैकैकस्वभावः कर्त्तापलभ्यते, तस्यातीन्द्रियतया प्रत्यक्षागोचरत्वस्य प्रागेव प्रतिपादनात् , आगमस्यापि तत्प्रतिपादकस्य १५ प्रागेव प्रतिषेधात् ! नापि सत्प्रतिपक्षम् ; विपरीतार्थोपस्थापकस्थानुमानान्तरस्याभावात् , कार्यत्वादिहेतूनां चावानेकदोषदुष्टत्वप्रतिपादनादिति। ननु साधूक्तमावरणापाये सर्वज्ञत्वमिति । तत्तु प्रकृतेरेव अत्रै. वावरणसम्भवात् , नात्मनस्तस्यावरणाभावात् “प्रधानपरिणाम:२० शुक्लं कृष्णं च कर्म" [ ] इत्यभिधानात् । निखिलजगकर्तृत्वाच्चास्या एवाशेषज्ञत्वमस्तु; तदेतदप्यसमीक्षिताभिधानम्, कर्मणः प्रधानपरिणामताप्रतिषेधात् सकलजगत्कर्तृत्वस्य चासिद्धः । ननु प्रकृतिप्रअवैक्यं जगतः सृष्टिप्रक्रिया, तत्कथं तस्यास्तत्कर्तृत्वासिद्धिः? तथा हि"प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः। तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥" [सांख्यका० २१] प्रथमं हि प्रकृतेर्महान्-विषयाध्यवसायलक्षणा वुद्धिरुत्पद्यते । बुद्धश्चाहङ्कारोऽहं सुभगोऽहं दर्शनीय इत्याद्यभिमानलक्षणः ।३० अहङ्कारात्पञ्च तन्मात्राणि शब्दस्पर्शरूपरसगन्धात्मकानि, इन्द्रियाणि चैकादश पञ्च बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणलक्षणानि, पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थसंशानि, १ कञ्चनातिशयमकुर्वताम् । २ प्रकृतेः । ३ क्रमः ! -
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy