SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ सू० २।१२] ईश्वरवादः २८३ कालभाविसकलकार्यजननसमर्थश्चैकस्वभावतयाभ्युपगतो महे. श्वर इति । तदा तदजनने वा तजननसामर्थ्याभावः, यद्धि यदा यन्न जनयति न तत्तदा तजननसमर्थस्वभावम् यथा कुसूलस्थ वीजमङ्करमजनयन्न तजननसमर्थवभावम् , न जनयति चोत्तरकालभावि सकलं कार्य पूर्वकात्पित्तिसमये महेश्वर इति। ५ तजननसमर्थवभावोप्यसौ सहकार्यऽभावात्तथा तन्न जनयति; इत्याणि वार्तम्, समर्थस्वभावत्यापरापेक्षाऽयोगात् । 'समर्थवभावश्चापरापेक्षश्च' इति विरुद्धमेतत् , अनधेियाऽप्रहेयोतिशयत्वात्तस्य । किञ्च, एते सहकारिणः किं तदायत्तोत्पत्तयः, अतदायत्तोत्प.१० चयो वा ? प्रथमपक्षे किं नैकदैवोत्पद्यन्ते ? तदुत्पादकान्यसहकारिवैकल्याचेदनवस्था । तथा चास्यापरापरसहकारिजनने एवोपक्षीणशक्तिकत्वान्न प्रकृतकार्ये व्यापारः। बीजाङ्कुरादिवदनादित्वात्तत्प्रवाहस्य नानवस्था दोपायेत्यभ्युपगमे महेश्वरकल्पनावैयर्थ्यम् , खसामग्र्यधीनोत्पत्तितया पूर्वपूर्वसामग्रीविशेपवशा-१५ दुपरापराखिलकार्योत्पत्तिप्रसिद्धः। अथातदायत्तोत्पत्तयःः तर्हि तैरेव कार्यत्वादिहेतवोऽनैकान्तिकाः इति । एतेन 'महाभूतादि व्यक्तं चेतनाधिष्टितं प्राणिनां सुखदुःखनिमित्तं रूपादिमत्त्वात्तुर्यादिवत्' इत्यादीनि वार्तिककारादिभिरुपन्यस्तप्रमाणानि निरस्तानि; यादृशं हि रूपादिमत्त्वमनित्यत्वं २० च चेतनाधिष्ठितं वास्यादौ प्रसिद्धं तादृशस्य क्षित्यादावसिद्धेः। रूपादिमत्त्वमात्रस्य च चेतनाधिष्ठितत्वेन प्रतिवन्धासिद्धेः आशवितविपक्षवृत्तितयाऽनैकान्तिकत्वम् । प्रतिवन्धाभ्युपगमे चेष्टविपरीतसाधनाविरुद्धलित्यादि पूर्वोत्तं सर्वमत्रापि योजनीयम्। किञ्च, ईश्वरवुद्धरनित्यत्वप्रसाधनात्तभिन्नत्येश्वरस्यानित्य-२५ त्वप्रसिद्धेस्तस्याप्यपरवुद्धिमदधिष्ठितत्वप्रसङ्गः स्यादित्यनवस्था । तदनधिष्ठितत्वे वा तेनैवानेकान्तो हेतोः। यञ्चोक्तम्-'सर्गादौ पुरुषाणां व्यवहारः' इत्यादि तत्रोत्तरकालं प्रवुद्धानामित्येतद्विशेषणमसिद्धम् । न खलु प्रलयकाले प्रलुप्त १ आरोपयितुमशक्योऽतिशयोऽनाधेयः । २ अन्यैः स्फोटयितुमशक्योऽतिशयोsप्रहेयः । ३ ईश्वरानपेक्षोत्पत्तयः ४ सहकारिभिः । ५ सावयवकार्यत्वहेतुनिराकरणपरेण ग्रन्थेन । ६ अविनाभावासिद्धेः । ७ भूरुहादिवचेतनानधिष्ठिते महाभूतादिव्यक्त रूपादिमत्त्वं वर्तते वास्यादिवच्चेतनाधिष्ठिते वा इति । ८ सर्वशत्वादिधर्मोपेवाद्विपरीतस्यासर्वशत्वादिधमोंपेतस्य । सत
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy