________________
२८२
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० यद्यदुपभोग्यं तत्तदृष्टपूर्वकम् यथा सुखादि, उपभोग्यं च प्राणिनां निखिलं कार्यमिति।
ननु यथा प्रभुः सेवाभेदानुरोधात्फलप्रदो नाप्रभुस्तथेश्वरोपि कर्मापेक्षः फलप्रदो नान्यः; इत्यपि मनोरथमात्रम्; राज्ञो हि ५सेवायत्तफलप्रदस्य यथा रागादियोगो नैघण्यं सेवायत्तता च प्रतीता तथेशस्याप्येतत्सर्वे स्यात्, अन्यथाभूतस्य अन्यपरिहारेण क्वचिदेव सेवके सुखादिप्रदत्वानुपपत्तेः।
अथ यथा स्थपत्यादीनामेकसूत्रधारनिय मितानां महामासादादिकार्यकरणे प्रवृत्तिः, तथात्राप्येकेश्वरनियमितानां सुखा१० धनेककार्यकरणे प्राणिनां प्रवृत्तिः, इत्यप्यसाम्प्रतम् ; नियमाभावात् । न ह्ययं नियमः-निखिलं कार्यमेकेनैव कर्त्तव्यम, नाप्येक नियतैर्वहुभिरिति; अनेकधा कार्यकर्तृत्वोपलम्भात् । तथाहि-कचिदेक एवैककार्यस्य कोंपलभ्यते यथा कुविन्दः
पटस्य । क्वचिदेकोप्यनेककार्याणाम् यथा घटघटीशरावोदञ्चना. १५दीनां कुलालः । कचिदनेकोप्यनेककार्याणाम् यथा घटपटम
कुटशकटादीनां कुलालादिः । क्वचिदनेकोप्येककार्यस्य यथा शिविकोद्वहनादिकार्यस्यानेकपुरुषसंघातः । न चानेकस्थपत्यादिनिष्पाचे प्रासादादिकार्येऽवश्यतयैकसूत्रधारनियमितानां तेषां
तत्र व्यापारः, प्रतिनियताभिप्रायाणामप्येकसूत्रधाराऽनियमि२० तानां तत्करणाविरोधात्।
किञ्च, अदृष्टापेक्षस्यास्य कार्यकर्तृत्वे तत्कृतोपकारोऽवश्यंभावी अनुपकारकस्यापेक्षायोगात् । तस्य चातो भेदे सम्बन्धासम्भवः। सम्वन्धकल्पनायां चानवस्था । अभेदे तत्करणे महेश्वर एव कृत इत्यदृष्ट कार्यतास्य । नाऽस्यादृष्टेन किञ्चित्क्रियते सम्भूय २५ कार्यमेव विधीयते सहकारित्वस्यैककार्यकारित्वलक्षणत्वात्। इत्यप्यसाम्प्रतम् ; सहकारिसव्यपेक्षो हि कार्यजननवभावः तस्यादृष्टादिसहकारिसन्निधानाद्यदि प्रागप्यस्ति तदोत्तरकालभावि सकलकार्योत्पत्तिस्तदैव स्यात् । तथाहि-यधंदा यजननसमर्थ तत्तदा तजनयत्येव यथान्त्यावस्थाप्राप्तं वीजमङ्कुरम् , प्रागप्युत्तर
१ वस्तु। २ यस्य पुरुषस्य । ३ स्वामी। ४ विशेष । ५ अनुसरणात् । ६ निष्कृपत्वम् । ७ तक्षकादीनाम् । ८ ईश्वरस्य । ९ ईश्वरात्। १० ततश्चेश्वरस्य नित्यत्वं विलीयते। ११ ईश्वरादृष्टाभ्यामेकीभूय । १२ एकस्वभावतयाभ्युपगतो महेश्वरो धर्मी उत्तरकालभावि सकलं कार्यमदृष्टादिसन्निधानात्प्रागपि जनयतीति साध्या धर्मः तदा तस्य तज्जननसामर्थ्यादिति शेषः। १३ नश्यदवस्थाप्राप्तम् ।