SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ सू० २११२] ईश्वरवादः २८१ यञ्चोक्तम्-तथा विश्वतश्चक्षुः' इत्यागमादयसौ सिद्धः; तद्प्युक्तिमात्रम् ; अन्योन्याश्रयानुपङ्गात्-प्रसिद्धप्रामाण्यो ह्यागमस्तप्रसाधको नान्यथातिप्रसङ्गात् ततस्तत्प्रामाण्यप्रसिद्धौ महेश्वरसिद्धिः, तत्सिद्धौ च तत्प्रणीतत्वेनागमप्रामाण्यप्रसिद्धिः । अन्येश्वरप्रणीतागमात्तत्सिद्धौ तस्यायन्येश्वरप्रणीतागमात्सिद्धावी-५ श्वरागमानवस्था । पूर्वेश्वरप्रगीतागमात्तत्सिद्धौ परस्पराश्रयः। स्वप्रणीतागसात्तत्सिद्धौ चान्योन्य संश्रयः । नित्यस्थ वागमस्य परैः प्रामाण्यं नेष्यते महेश्वरकल्पनानर्थक्यप्रसङ्गात्, प्रामाण्यस्योत्पत्तौ शप्तौ चेश्वरसद्भावस्याकिञ्चित्करत्वात् । यदप्युक्तम्-कारुण्याच्छरीरादिसर्गे प्राणिनां प्रवर्त्तते; तद्-१० प्ययुक्तम्: सुखोत्पादकस्यैव शरीरादिसर्गस्योत्पादकस्य प्रस. ङ्गात् । न हि करुणावतां यातनाशरीरोत्पादकत्वेन प्राणिनां दुःखोत्पादकत्वं युक्तम् । धर्माधर्मसहकारिणः कर्तृवात्सुखवदुःखस्याप्युत्पादकोऽसौ, फलोपभोगेन हि तयोः प्रक्षयादपवर्गः प्राणिनां स्यात् इति करुणयापि तद्विधाने प्रवृत्यविरोधः; इत्य-१५ प्यसङ्गतम् ; तयोरीश्वरानायत्तत्वे कार्यत्वे च आभ्यामेव कार्यत्वा देरनैकान्तिकत्वप्रसङ्गात्, तदुत्पत्तौ तस्याव्यापारे च विनाशेष्यव्यापारोस्तु, कारणान्तरोत्पन्नसुखदुःखलक्षणफलोपभोगेनानयोः प्रक्षयसम्भवात् । न हीश्वरस्यापि तत्फलोत्पादनादन्यत्तयोःक्षयकर्तृत्वम् । २० किञ्च, धर्माधर्मों निष्पाद्य पुनस्तयोः क्षयकरणे किमुत्पत्तिकरणप्रयासेन ? न हि प्रेक्षाकारी खात्वा पुनः समीकरणन्यायेनात्मानमायासयति "प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्" [ ] इति प्रसिद्धेश्च । अन्यथा प्रक्षालिताशुचिमोदकपरित्यागन्यायानुसरणप्रसङ्गः। अपवर्गविधानार्थ चास्य प्रवृत्तौ कथमपूर्वकर्मसञ्चयकर्तृत्वम् ? तत्सहकारिणश्चास्य सुखदुःखोत्पादकशरीरोत्पादकत्वे वरं तत्फलोपभोक्तृप्राणिगणस्यैव तत्सव्यपेक्षस्य तदुत्पादकत्वमस्तु किमदृष्टेश्वरपरिकल्पनया? सर्वत्र कार्येऽदृष्टस्य व्यापारात् । तथाहि १ ईशः । २ ईश्वर । ३ अप्रसिद्धप्रामाण्याद'गमादन्येषामीश्वराभावः स्याद्यदि । ४ यतः प्रसिद्धप्रामाण्यागमः ईश्वरप्रतिपादकः। ५ नैयायिकैः । ६ अन्यथा । ७ तीनवेदनाजनक। ८ सुखदुःख। ९ महेश्वरस्य । १० ईशकारणरहितत्वे । ११ भूमि खनित्वा । १२ तयोर्धर्माधर्मयोः। १३ अप्रसिद्धस्य । १४ निखिलं कार्य थमि प्राण्यदृष्टपूर्वकं भवतीति साध्यो धर्मः तदुपभोग्यत्वात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy