________________
सू० २।१२] ईश्वरवादः
२७३ श्रद्धामात्रम्; तयोस्ततोऽर्थान्तरत्वे सम्वन्धासिद्धिप्रसङ्गात् । समवायादेश्च कृतोत्तरत्वादित्यलमतिप्रसङ्गने ।
बुद्धिमत्कारणमित्यत्र चं मत्वर्थस्य साध्यविशेषणस्यानुपपत्तिः। वुद्धिमतो हि बुद्धिर्व्यतिरिक्ता वा, अव्यतिरिक्ता वा ? तत्र तस्यास्ततो व्यतिरेकैकान्ते तस्येति सम्बन्धस्याभावः । सा हि ५ तस्य तहणत्वात् , तत्समवायाद्वा, तत्कार्यत्वाद्वा तदाधेयत्वाद्वा स्यात् ? न तावत्तगुणत्वात्ला तस्येत्यभिधातव्यम् : ततो व्यतिरेकैकान्ते सा तस्यैव गुणो नाकाशादेरिति व्यवस्थापयितुमशक्तः । नापि तत्समवायात् । तस्यैवासम्भवात् । सम्भवे वा तस्य ताभ्यां मेदैकान्ते व्यवस्थापकत्वायोगात्सर्वत्राविशेषाच। तत्कार्यत्वात्सा १० तस्येति चेत्, कुतस्तत्कार्यत्वम् ? तस्मिन्सति भावात् ; आकाशादौ प्रसङ्गः । तदभावेऽभावाच्चेन्न; नित्यव्यापित्वाभ्यां तस्य तदयो. गात् । तदाधेयत्वात्सा तस्येति चेत् : किमिदं तदाधेयत्वं नाम ? समवायेन तत्र वर्त्तनं चेत्तत्कृतोत्तरम् । तादात्म्येन वर्त्तनं चेन्न अनभ्युपगमात् । सम्वन्धमात्रेण वर्त्तनं चेत् : तर्हि घटादेर्भूत-१५ लादिगुणत्वप्रसङ्गः, सम्वन्धमात्रेण वर्त्तमानस्य तस्य तदाधेयत्वसम्भवात् ।
किश्च, व्याप्त्या तेनास्यास्तत्र वर्त्तनम् , अव्याहया वा? न तावद्व्याप्त्या; आत्मविशेषगुणत्वादमदादिवुयादिवत् । परममहापरिमाणेन व्यभिचारः; इत्ययुक्तम् । तत्र विशेषगुणत्वाभावात् । २० नन्वेवमस्मदादिबुद्ध्यादौ सकलार्थनाहित्वाभावो दृष्टः सोपि तंत्र स्यादिति चेत्, अस्तु नाम, दृष्टान्ते व्याप्तिदर्शनमात्रात्सर्वत्र साध्यसिद्धर्भवताभ्युपगमात् । कथमन्यथा प्रकृतसिद्धिः? यथा चास्मदादिबुद्धिवैलक्षण्यं तद्बुद्धेरदृष्टं परिकल्प्यते तथा घटादौ कर्मकर्तृकरणनिर्वहँकार्यत्वं दृष्टं वने वनस्पत्यादिषु चेतनकर्तर-२५ हितमपि स्यादित्येतैर्व्यभिचारो हेतोः । अथाऽव्याप्त्यातर्हि देशान्तरोत्पत्तिमत्कार्येषु कथं तस्या व्यापारः असन्निधानात् ?
१ समवायादिसम्बन्धनिराकरणविस्तरेण । २ किञ्च । ३ साध्यं कारणं तस्य विशेषणं बुद्धिमत् । ४ परेण योगेन । ५ बुद्धिबुद्धिमद्भ्याम् । ६ वुद्धिमत इयं बुद्धिरिति । ७ गगनादौ समवायस्य व्यापकत्वात् । ८ चेत्तहिं । ९ खमपि सर्वदाऽस्ति यतः । १० सामस्त्येन । ११ आरमविशेषगुणेन । १२ आकाशगुणत्वात्परममहापरिमाणस्य जैनानाम् । आत्मा तु तेषां देहपरिमाण इति । १३ ग्याल्या वर्तमानत्वप्रतिषेधे । १४ ईश्वरलक्षणे बुद्धिमति । १५ नैयायिकेन । १६ बुद्धिमत्कारणत्वस्य । १७ का। १८ परेण । १९ घट । २० कुम्भकार । २१ चक्रादि ।