SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० खरविषाणवत् । न चाजनक विषयः, उपलम्भकारण पलम्भविषय इत्यभ्युपगमात् । प्रागसतः सत्तासम्बन्धेप्येतत्सर्व समानम् । न समानम् : खरः शृङ्गादेः क्षित्यादिकार्यस्य, विशेषसम्भवात् । तद्ध्यत्यन्ताऽसत, ५क्षित्यादिकं न सँन्नाऽप्यसत्सत्तासम्वन्धात्तु सत्; इत्यपि मनोर थमात्रम्; सत्त्वासत्त्वयोरेकत्रैकदा प्रतिषेधविरोधात् । 'न सत्' इत्यभिधानात्तस्य सत्तासम्बन्धात्प्रागभावः स्यात्सत्प्रतिषेधलक्षणत्वादस्य, 'नाप्यसत्' इत्यभिधानात्तु भावः, असत्त्वप्रतिषेधरूपत्वात्तस्य रूपान्तराभावात् । ततोऽसदेव तद्भ्युपमन्तव्यम् । १० तन्नास्य खरशृङ्गादेविशेषः। किञ्च, सत्ता सती, असती वा? यद्यऽसती; कथं तया वन्ध्यासुतयेव सम्बन्धादन्येषां सत्त्वम् ? सती चेत्स्वतः, अन्यसत्तातो वा? यधन्यसत्तातोऽनवस्था । स्वतश्चेत् पदार्थानामपि स्वत एव सत्त्वं स्यादिति व्यर्थ तत्परिकल्पनम् । १५ एतेन द्वितीयविकल्पोप्यपास्तः। कार्यस्य हि स्वतः सत्वोपममे किं तत्कल्पनया साध्यम् ? अनवस्थाप्रसङ्गात् । तदेवं कार्यत्वासिद्धरसिद्धो हेतुः। .. . किञ्च, कथञ्चित्कार्यत्वं क्षित्वादेः, सर्वथा वा ? सर्वथा चेत्पु. नरप्य सिद्धत्वं द्रव्यतोऽशेषार्थानामकार्यत्वात् । कथञ्चित् चेद्वि. २० रुद्धस्वम् ; सर्वथा बुद्धिमन्निमित्तत्वात्साध्याद्विपरीतस्य कथञ्चि बुद्धिमनिमित्तत्वस्य साधनात् । ___ अनैकान्तिकं च आत्मादिभिः तेषां वुद्धिमन्निमित्तत्वाभावपि तत्सम्भवात् । कथञ्चिदप्यकार्यत्वे चैतेषां कार्यकारित्वस्याभावस्तस्याऽकर्तृरूपत्यागेन कर्तृरूपोपादानाविनामावित्वात् । तत्त्या २५ गोपादानयोश्चैकरुपे वस्तुन्यसम्भवात्सिद्धं कथञ्चित् कार्यत्वं तेषाम् । कर्तृत्वाकर्तृत्वरूपयोरात्मादिभ्योऽर्थान्तरत्वान्न तद्विना शोत्पादाभ्यां तेषामपि तथाभावो यतः कार्यत्वं स्यात्; इत्यपि १ प्रत्यक्षस्याजनकक्षित्यादिकम् । २ असत्त्वादेवाजनकम् ।। ३ प्रत्यक्षस्य । ४ प्रत्यक्षकारणं प्रत्यक्षजनकमित्यर्थः । ५ प्रत्यक्षविषयः । ६ प्रागित्यादि । ७ सत्तासम्बन्धवैयर्थ्यप्रसङ्गात् । ८ खरविषाणादेरपि सत्तासम्बन्धप्रसङ्गात् । ५ न सदित्यस्य । १० सद्भावः । ११ परेण । १२ क्षित्यादीनाम्। १३ न वेत्ययम् । १४ कारणसमवायसत्तासमवायकल्पनया। १५ द्रव्यपर्यायाभ्याम् । १६ कार्यत्व । १७ कूटस• नित्यस्येव । १८ नित्ये । १९ विनाशोत्पादः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy