SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ २७१ सू० २।१२] . . ईश्वरवादः . स्तैर्जन्यमानत्वलक्षणसावयवत्वसिद्धिः, तत्सिद्धौ च कार्यत्वसिद्धिः, ततश्च परमाणुप्रसिद्धिरिति । महापरिमाणोपेतप्रशिथिलावयवकासपिण्डोपादानेन अति निविडावयवाल्पपरिमाणोपेतकासपिण्डेन अनेकान्तश्च । वलवत्पुरुषप्रयत्नप्रेरितद्दस्ताद्यमि. घातादवयवक्रियोत्पत्तेः अवयवविभागात् संयोगविनाशात् महा-५ कर्पासपिण्डविनाशः, अल्पकासपिण्डोत्पादस्तु स्वारम्भकावयवकर्मसंयोगविशेषवशादेव भवति; इत्यपि विनाशोत्पादप्रक्रियोद्घोषणमात्रम्, प्रमाणतोऽप्रतीते । कासद्व्यं हि महापरिमाणपिण्डाकारपरित्यागेनाल्पपरिमाणपिण्डाकाकारतयोत्पद्यमानं प्रमाणतः प्रतीयते । आशूत्पत्तेर्भेदानवधारणात्तथा प्रतीतिरित्य. १० प्यसङ्गतम्, सकलभावानां क्षणिकत्वानुपङ्गात् । अंभेदाध्यवसा. यस्तु सदृशापरापरोत्पत्तिविप्रेलम्भादित्यनिष्टसिद्धिप्रसङ्गात् । नाप्यागमात्परमाण्वादिप्रसिद्धिस्तत्प्रामाण्याप्रसिद्धः।। सावयवमिति बुद्धिविषयत्वमपि, आत्मादिनानैकान्तिकं तस्याकार्यत्वेपि तत्प्रसिद्धः । सार्वयवार्थसंयोगाग्निरवयवत्वेप्यम्य तदु-१५ द्धिविषयत्वमित्यौपचारिकम् । तदप्यसङ्गतम् । तस्य निरवयवत्वे व्यापित्वविरोधात् परमाणुवत् । तदपि ह्यौपचारिकमेव स्यात् । तदेवं सावयवत्वासिद्धेः कथं ततः क्षित्यादेः कार्यन्वसिद्धिः? प्रागसतः स्वकारणसमवायात्, सत्तासमवायाद्वा सिद्धिश्वेत् । कुतः प्राक? कारणसमवायाच्चेत् तत्समवायसमये प्रागि-२० वास्य स्वरूपसत्त्वस्याभावः, न वा? अभावे 'प्राक्' इति विश. षणमनर्थकम् । कार्यस्य हि कारणसमवायसमये स्वरूपेण सत्त्वसम्भवे तद्वत्प्रागपि सत्वे कार्यता न स्यात् । ततः प्रागित्यर्थवत्स्यात् । प्रागिव तत्समवायसमयेप्यस्य स्वरूपसत्त्वाभावे तु 'असतः' इत्येवाभिधातव्यम् । न चासतः कारणसमवायः: ग्बर-२५ विषणादेरपि तत्प्रसङ्गात् । न चास्य कारणाभावान्न तन्प्रसङ्गः; इत्यभिधातव्यम्; क्षित्यादेरपि तद्भावप्रसादसत्त्वाविशेषात् । क्षित्यादेः कारणोपलम्मान दोपः; इत्यप्यसारम् ; कार्यकारणयोरुपलम्मे हीदमस्य कारणं कार्य चेदमिति प्रति(वि)भागः म्यात् । न च प्रत्यक्षतः क्षित्यादेरुपलम्भोऽसतस्तस्य तज्जनकत्वविरोधात् ३० १ क्रिया । २ कथनमात्रम् । ३ पूर्वपिण्डविनाश एवो पिy tifule याया। ४ आशुवृत्तः । ५ विसंवादात् । ६ क्षित्यादिकं कार्य सावरायत्यायन । ७ आदिपदेनाकाशादिना। ८ शरीरादिमूर्तिमद्भिः। ९ परमाणु। १० वाणु पटस. मवायो यथा। ११ क्षित्यादिकार्यत्वस्य । १२ क्षित्यादिकार्यत्तस्य । १३ नासतः इति विशेषणम् । १४ कारण। १५ न प्रागिति । १६ परेण त्यया ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy