SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ २७० प्रमेयकमलमातण्डे [२. प्रत्यक्षपरि० म्भकावयवसन्निवेशेविशिष्टत्वाद् घटादिवत्। वैधयेण परमाणवो यथा"[ ]द्वाभ्यां दर्शनस्पर्शनेन्द्रियाभ्यां ग्राहां प्रथिव्यते जोलक्षणं त्रिविधं द्रव्यमग्राह्यं वाय्वादिकम् । वायौ हि रूप. संस्काराभावादनुपलब्धिः रूपसंस्कारो रूपसमवायः। न्यणका ५दीनां त्वऽमहत्वात् । उक्तं च-"महत्यनेकद्रव्यत्वाद्रूपविशेषा रूपोपलब्धिः " [ वैशे० सू० ४॥१६] . प्रशस्तमतिना च; "सँर्गादौ पुरुषाणां व्यवहारोऽन्योपदेशपूर्वकः उत्तरकालं प्रबुद्धानां प्रत्यर्थनियतत्वादप्रसिद्धवाग्व्यवहाराणां कुमाराणां गवादिषु प्रत्यर्थनियतो वाग्व्यवहारो यथा १० मात्राथुपदेशपूर्वकः" [ ] इति । उद्द्योतकरेण च; "भुवनहेतवः प्रधानपरमाण्वदृष्टाः स्वकार्योत्पत्तावतिशयवबुद्धिमन्तमधिष्ठितारमपेक्षन्ते स्थित्वा प्रवृत्तेस्तन्तुतुर्यादिवत् । तथा, बुद्धिमत्कारणाधिष्ठितं महाभूतादि व्यक्तं सुखदुःखनिमित्तं भवत्यचेतनत्वात्कार्यत्वाद्विनाशित्वाद्र्पादिम१५ त्वाद्वा वास्यादिवत्।" [न्यायवा० पृ० ४५७ ] इत्यनवा भगवतः प्रलयकालेऽप्यलुप्तज्ञानाद्यतिशयस्य साधनम् । अत्र प्रतिविधीयते-सावयवत्वात्कार्यत्वं क्षित्यादेः प्रसाध्यते । तत्र किमिदं सावयवत्वं नाम? सहावयवैवर्तमानत्वम् , तैर्जन्य मानत्वं वा, सावयवमिति वुद्धिविषयत्वं वा? प्रथमपक्षे सामा२० न्यादिनानेकान्तः; गोत्वादि सामान्यं हि सहावयवैर्वर्त्तते, न च कार्यम् । द्वितीयपक्षेप्यसिद्धो हेतुः; परमावाद्यवयवानां प्रत्यक्षतो. ऽसिद्धौ क्षित्यादेस्तजन्यमानत्वस्याप्यसिद्धेः । प्रत्यक्षानुपलम्भसाधनश्च कार्यकारणभावः । व्यणुकादिकं स्वपरिमाणादल्पपरिमाणो पेतकारणारब्धं कार्यत्वात्पटादिवदित्यनुमानात्तेषां प्रसिद्धिा, ३० इत्यप्यसमीचीनम् ; चक्रकप्रसङ्गात्-परमाणुप्रसिद्धौ हि क्षित्यादे १ परमाणु । २ रचनाविशेष। ३ व्यतिरेकेण । ४ आदिपदेन द्वयणुकादिकम् । ५ अनेकद्रव्यत्वाद्रूपविशेषाचेत्युच्यमाने व्यणुकादौ रूपोपलब्धिः स्यात्तद्वयवच्छेदार्थ महतीति पदम् । ६ महत्यनेकद्रव्यत्वादित्युच्यमाने वायावपि रूपोपलब्धिः स्यात्तद्वयवच्छेदार्थ रूपविशेषादित्युक्तम् । ७ सृष्टिप्रारम्भे । ८ आदिपदेन पित्रादि । ९ साङ्ख्यो. देशेनास्य प्रयोगः। १० मीमांसकायुद्देशेनास्य पदस्य प्रयोगः। ११ खण्डमुण्ड. शावलेयत्वादिस्वव्यक्तिभिः सह वर्तते। १२ नित्यत्वात्तस्य । १३ व्यणुकादि । ४ घटमृत्पिण्डादौ कार्यकारणभावः प्रत्यक्षतः सिद्धो द्वयणुकपरमाण्वादौ तु कार्यकारणभावोऽनुमानादिति भावः । १५ बुद्ध्या (व्यापकत्वान्महत्परिमाणोपेतात्मनः कार्यत्वाद्रुध्यादेः) व्यभिचारपरिहारार्थ द्रव्यत्वे सतीति विशेषणं द्रष्टव्यम् । १६ परमावादीनाम् । १७ त्रिभिरावर्तनं चक्रकदूषणम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy