SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ सू० २।१२] . ईश्वरवादः २६९ विशेषेण प्रवृत्तिनिवृत्तिर्वा स्यात् । तथा विधिवाक्यस्यापि स्वार्थप्रतिपादनद्वारेणैव पुरुषप्रेरकत्वं दृष्टमेवं स्वरूपपरेप्वपि वाक्येषु स्यात्, वाक्यरूपताया अविशेषाद्विशेषहेतोश्चाभावात् । तथा र्खरूपानामप्रामाण्ये "मेध्या आपो दर्भः पवित्रममेध्यमशुचि" इत्येवंस्वरूपापरिज्ञाने विध्यङ्गतायामविशेपेण प्रवृत्तिनिवृत्ति-५ प्रसङ्गः । न चैतदस्ति, मेध्येष्वेव प्रवर्तते अमेध्येषु च निवतते इत्युपलम्भात्। एवं प्रमाणप्रसिद्धो भगवान् कारुण्याच्छरीरादिलगे प्राणिनां प्रवर्त्तते । न चैवं सुखंसाधन एव प्राणिसंर्गोऽनुषज्यते; अदृष्टसहकारिणः कर्तृत्वात् । यस्य यथाविधोऽदृष्टः पुण्यरूपोऽपुण्यरूपो १० वा तस्य तथाविधफैलोपभोगाय तत्सापेक्षस्तथाविधशरीरादीन्सजतीति । अदृष्टप्रक्षयो हि फलोपभोगं विना न शक्यो विधातुम् । न चादृष्टादेवौखिलोत्पत्तिरस्तु किं कर्तृकल्पनयेति वाच्यम् । तस्याप्यचेतनतयाधिष्ठात्रपेक्षोपपत्तेः । तथाहि-अदृष्टं चेतनाधिष्ठितं कार्ये प्रवर्ततेऽचेतनत्वात्तन्त्वादिवत् । न चास्मदाद्यान्मैवा-१५ धिष्ठायकः; तस्यादृष्टपरमाण्वादिविपयविज्ञानाभावात् । न च (चा) चेतनस्याकस्मात्प्रवृत्तिरुपलब्धा, प्रवृत्तौ वा निप्पन्नेपि कार्ये प्रवर्तेत विवेकशून्यत्वात् । तथा वार्तिककारेणापि प्रमाणद्वयं तैत्सिद्धयेऽभ्यधायि"महाभूतादि व्यक्तं चेतनाधिष्ठितं प्राणिनां सुखदुःखनिमित्तं २० रूपादिमत्त्वात्तुर्यादिवत् । तथा पृथिव्यादीनि महाभूतानि वुद्धिमत्कारणाधिष्ठितानि स्वासु धारणाद्यासु क्रियासु प्रवर्त्तन्तेऽनित्यत्वाद्वात्यादिवत् ।" न्यायवा० १० ४६७ ] तथाऽविद्धकर्णेन च-"तनुकरणभुवनोपादानानि चेतनाधिष्ठितानि स्वकार्यमारभन्ते रूपादिमत्त्वात्तन्त्वादिवत् ।" तथा,२५ "द्वीन्द्रियग्राह्याग्राह्यं विमतिभावापन्नं बुद्धिमत्कारणपूर्वकं स्वार १ किञ्च । २ प्रवृत्तिप्रतिपादकस्य । ३ विधिवाक्यप्रकारेण । ४ शब्दार्थ । ५ स्वार्थप्रतिपादकद्वारेण विध्यङ्गता। ६ वेदवाक्यानाम् । ७ कारुण्यात्प्रवर्तनेन । ८ सुखजनकः । ९ प्राणिसम्बन्धी शरीरादिसर्गः । १० प्राणिनः । ११ सुखदुःखादिजनक। १२ भगवान् । १३ सुखदुःखादिजनकान् । १४ अपि तु न भगवतः । १५ जैनादिभिः। १६ प्रेरितम् । १७ प्रेरकः । १८ कारणं विना। १९ ईश। २० परमाणुव्यवच्छेदार्थ महदिति पदम् । २१ पृथिव्यादि। २२ कार्यम् । २३ यथा वार्तिककारेणाभ्यधायीति पूर्वेण सम्बन्धः। २४ परमाण्वादिकारणानि । २५ क्षित्यादिकम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy