SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ २६८ प्रमेयकमलमार्तण्डै [२. प्रत्यक्षपरि० कार्य कर्तुमजानतः सशरीरस्यापि तत्कर्तृत्वादर्शनात् , जानतो. पीच्छापाये तदनुपलम्भात्, इच्छतोपि प्रयत्नाभावे तदसम्भ वात् , तत्रयमेव कारकप्रयुक्ति प्रत्यङ्गं न शरीरेतरता। न च दृष्टान्तेऽनीश्वरासर्वज्ञकृत्रिमज्ञानवता कार्यत्वं व्याप्त ५प्रतिपन्नमित्यत्रापि तथाविधमेवाधिष्ठातारं साधयतीति विशेष विरुद्धता हेतोः इत्यभिधातव्यम् ; बुद्धिमत्कारणपूर्वकत्वमात्रस्य साध्यत्वात्। धूमाद्यनुमानेपि चैतत्समानम्-धूमो हि महानसादिदे. शसम्बन्धितार्णपार्णादिविशेषाधारेणाग्निना व्याप्तः पर्वतेपि तथा विधमेवाग्निं साधयेदिति विशेषविरुद्धः । देशादिविशेषत्यागेना. १० ग्निमात्रेणास्य व्याप्तेन दोपः इत्यन्यत्रापि समानम् । सर्वज्ञता चास्याशेषकार्यकरणात्सिद्धा । यो हि यत्करोति स तस्योपादानादिकारणकलापं प्रयोजनं चावश्यं जानाति, अन्यथा तक्रियाऽयोगात्कुम्भकारादिवत् । तथा "विश्वतश्चक्षुः" श्वेता. श्वतरोप० ३॥३] इत्यागमादप्यसौ सिद्धः १५ "द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य विभयव्यय ईश्वरः ॥२॥" [भगवद्गी० १५।१६-१७ ] २० इति व्यासवचनसद्भावाच । न च स्वरूपप्रतिपादकानामप्राण्यम् ; प्रेमाजनकत्वस्य सद्भा. वात् । प्रमाजनकत्वेन हि प्रमाणस्य प्रामाण्यं न प्रवृत्तिजनकत्वेन, तञ्चहास्त्येव । प्रवृत्तिनिवृत्ती तु पुरुषस्य सुखदुःखसाधनत्वा. ध्यवसाये समर्थस्यार्थित्वाद्भवतः । विधेरैङ्गत्वादमीषां प्रामाण्यं २५न खरूपार्थत्वात् ; इत्यसत्; स्वार्थप्रतिपादकत्वेन विध्यङ्गत्वात् । तथाहि-स्तुतेः स्वार्थप्रतिपादकत्वेन प्रवर्तकत्वं निन्दायास्तु निवर्तकत्वम्, अन्यथा हि तदर्थापरिज्ञाने विहितप्रतिषेधेश्व १ अनित्य । २ क्षित्यादौ। ३ नित्यज्ञानेच्छाप्रयत्नवान्विशेषस्तेन। ४ धूमः । ५ ईश्वरे। ६ ईश्वरः। ७ अनित्यः संसारी जीवसमूहः। ८ नित्य ईश्वरः। ९ देहसम्बन्धीनि पृथिव्यादीनि। १० नित्यः। ११ प्रविश्य । १२ विदधाति । १३ वेदवाक्यानाम् । १४ यथार्थानुभवः प्रमा। १५ वेदवाक्ये । १६ सति । १७ प्रवृत्तेः। १८ वेदवाक्यानाम् । १९ वेदवाक्यानाम् । २० वेदवाक्यानां खार्थप्रतिपादकत्वेन प्रवर्तकत्वं निवर्तकत्वं वा नास्ति यदि । २१ वेदवाक्य । २२ उपादेय । २३ निषिद्ध ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy