SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ २७४ प्रमेयकमलमार्तण्डे २. प्रत्यक्षपरि० तथापि व्यापारेऽदृष्टस्याप्यस्यादिदेशेऽसन्निहितस्योर्वज्वलनानि हेतुता स्यादिति-"अग्नरूज्वलनम्" [प्रश० व्यो० ० ४२११ इत्याद्यात्मसर्वगतत्वसाधनमयुक्तम् । अव्य तिरेकैकान्ते चात्ममा बुद्धिमानं वा स्यात्, तत्कथं मत्वर्थः ? न हि तदेव तेनैव ५तद्वद्भवति। किञ्च, असौ तद्बुद्धिः क्षणिका, अक्षणिका वा? यदि क्षणिका. तदा तस्याः कथं द्वितीयक्षणे प्रादुर्भावः कारणत्रयाधीनत्वात्तस्य? न चेश्वरेऽसमवायिकारणमात्ममनःसंयोगस्तच्छरीरादिक च निमित्तं कारणमस्ति । कारणत्रयाभावेप्यस्मदादिवुद्धिवैला १० ण्यात्तस्याः प्रादुर्भावे क्षित्यादिकार्यस्य घटादिकार्यवैलक्षण्यावद्धि मत्कारणमन्तरेणाप्युत्पत्तिः किन्न स्यात् ? महेश्वरवुद्धिवच्च मुक्तात्मनामप्यानन्दादिकं शरीरादि निमित्तकारणमन्तरेणाप्युत्पत्स्यत इति कथं वुझ्यादि विकलं जडात्मस्वरूपं मुक्तिः स्यात् ? अथाऽक्षणिका तद्बुद्धिः । नन्वत्रापि 'क्षणिकश्शब्दोमदादि१५ प्रत्यक्षत्वे सति विभुद्रव्यविशेषगुणत्वात् सुखादिवत्' इत्यत्रानुमानेऽनयैव हेतोरनेकान्तोऽस्या इव विभुद्रव्यविशेषगुणत्वेऽन्यस्थामदादिप्रत्यक्षत्वेपि नित्यत्वसम्भवात् । तथा 'क्षणिका महेश्वरवुद्धिर्बुद्धित्वादमदादिबुद्धिवत्' इत्यनुमानविरोधश्च । अथ बुद्धित्वाविशेषेपि ईशामदादिवुद्ध्योरक्षणिकत्वेतरलक्षणो २० विशेषः परिकल्प्यते तथा घटादिक्षित्यादिकार्ययोरप्यकर्तृकर्तपूर्वकत्वलक्षणो विशेषः किन्नेष्यते ? तथा च कार्यत्वादिहेतोर नेकान्तः । तदेवं बुद्धिमत्त्वासिद्धेः कथं तत्कारणत्वेन कार्यत्वं व्याप्येत? अस्तु वाऽविचारितरमणीयं बुद्धिमत्कारणत्वव्याप्त कार्यत्वम् २५ तथाप्यत्र यादग्भूतं बुद्धिमत्कारणत्वेनाऽभिनवकूपप्रासादादौ व्याप्तं कार्यत्वं प्रमाणतः प्रसिद्धं यक्रियादर्शिनोपि जीर्णकूपप्रा. सादादौ लौकिकेतरयोः कृतबुद्धिजनकं तादग्भूतस्य क्षित्यादावसिद्धरसिद्धो हेतुः । सिद्धौ वा जीर्णकूपप्रासादादाविवाs १ मुक्तस्य । २ अग्नेरूर्वस्थितमन्नादि, तस्य शुभपचनं भोक्तदेवदत्तादृष्टेनेति । ३ नैयायिकमते आत्मनः सर्वगतत्वात्तद्गुणोऽदृष्टमपि सर्वगतमेवातो देशान्तरे कालान्तरे चान्नपाकपटमुक्ताफलादीन् तद्भोक्तदेवदत्तादृष्टं तत्र गत्वा सहकारिभूयोत्पादयति । ४ समवाय्यसमवायिनिमित्तति । ५ समवायिकारणं त्वात्मास्ति । ६ नैयायिकमते । ७ अक्षणिकबुद्धिपक्षेपि । ८ परममहापरिमाणेन व्यभिचारपरिहारार्धमेतत् । ९ परः। १. इतरः परीक्षकः।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy