________________
सू० २११२] सर्वज्ञत्ववादः पेऽस्याप्रामाण्यम् । अविसंवादो हि प्रमाणलक्षणं कार्ये स्वरूपे वार्थे, नोन्यत् । यत्र सोस्ति तत्प्रमाणम् । न चाशेषज्ञाभावावेदकं किञ्चिद्वेवाक्यमस्ति, तत्सद्भावावेदकस्यैव श्रुतेः । तन्नागमादप्यस्याभावसिद्धिः
नाप्युपमानात् : तत्खलूपमानोपमेययोरध्यक्षत्वे सति साह-५ झ्यावलस्वनमुदयमासादयति नान्यथा! न चात्रत्येदानीन्तनोपमानभूताशेषपुरुषप्रत्यक्षत्वम् उपमेयभूताशेपान्य देशकालपुरुषप्रत्यक्षत्वं चाभ्युपगम्यते; सर्वज्ञसिद्धिप्रसङ्गात् , निखिलार्थप्रत्यक्षत्वमन्तरेणाशेषपुरुषपरिषत्साक्षात्कारित्वासम्भवात् ।
नाप्यर्थापत्तेस्तदभावावगमः; सर्वज्ञाभावमन्तरेणानुपजायमा-१० नस्य प्रमाणषकविज्ञातस्य कस्यचिदर्थस्यासम्भवात् । वेदप्रामाग्यस्य गुणवत्पुरुषप्रणीतत्वे सत्येव भावात् । अपौरुषेयत्वस्याग्रे विस्तरतो निषेधात् । न चार्थापत्तिरनुमानात्प्रमाणान्तरमित्यग्रे वक्ष्यते । तद्वत्रापि व्यास्यादिचिन्तायां दोषान्तरं चापादनीयम् ।
नाप्यभावप्रमाणात्तभावसिद्धिः, तस्यासिद्धेः, तदसिद्धिश्चा-१५ भावप्रमाणलक्षणस्य
"प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । सात्मनोऽपरिणामो वा विज्ञानं वान्यवस्तुनि ॥"
[मी० श्लो० अभावप० श्लो० ११] इत्यादेः प्रागेव विस्तरतो निराकरणात्सिद्धा। इत्यलमतिप्रसङ्गेन । २० न चानुमाने तत्सद्भावावेदके सत्येतत्प्रवर्त्तते
"प्रमाणपश्चकं यंत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थ तत्राभावप्रमाणता ॥"
[मी० श्लो० अभावप० श्लो०१] इत्यभिधानात् । किञ्च, अभावप्रमाणं
"गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥"
[मी० श्लो० अभावप० श्लो० २७ ] इति सामग्रीतः प्रादुर्भवति । न चाशेषज्ञनास्तिताधिकरणाखिलदेशकालप्रत्यक्षता कस्यचिदस्त्यतीन्द्रियार्थदर्शित्वप्रसङ्गात् ।३०
१ श्रुतिवाक्यस्य । २ प्रवर्तकम् । ३ प्रमाणत्वेनाङ्गीकृतवचनादौ। ४ अभ्युप. गम्यते चेत्तर्हि सर्वशो वेदप्रामाण्यान्यथानुपपत्तेः । ५ सपक्षेऽन्वयादि । ६ विचारणायाम् । ७ आश्रयासिद्धिलक्षणाद्दोषादन्यत्सम्बन्धाप्रतिपत्त्यनवस्थेतरेतराश्रयलक्षणं दोषान्तरम् । ८ अभावप्रमाणदूषणविस्तरेण । ९ घटासदंशलक्षणे।
प्र० क० मा० २३