________________
२६४
प्रमेयकमलमार्तण्डे २. प्रत्यक्षपरि० वत् । तथाहि असर्वज्ञत्वं सर्वज्ञत्वादन्यत्पर्युदासवृत्त्या किजि. ज्ञत्वमभिधीयते । न च तत्तरतमभावाद्वचनस्य तथाभावो दृश्यते तद्विप्रकृष्टमत्यल्पज्ञानेषु कृम्यादिषु, न च तत्र वचनप्रवृत्तःप्रकर्षा दृश्यते । अथ प्रसज्यप्रतिषेधवृत्त्या सर्वशत्वाभावोऽसर्वज्ञत्वं ५ तत्कार्य वचनम् ; तर्हि ज्ञानरहिते मृतशरीरादौ तस्योपलम्भप्रसङ्गो ज्ञानातिशयवत्सु चाखिलशास्त्रव्याख्यातृषु वचनातिशयो. पलम्भो न स्यात् । न चैवम् , ततो ज्ञानप्रकर्षतरतमाद्यनुविधानदर्शनात्तस्य तत्कार्यता सातिशयतक्षादिकारणधर्मानुविधायि. प्रासादादिकार्यविशेषवत् । तन्नानुमानात्तदभाव सिद्धिः । १० नाप्यागमात् , स हि तत्प्रणीतः, अन्यप्रणीतः, अपौरुषेयो वा
तदभावसाधकः स्यात् ? तत्र यद्यागमप्रणेता सकलं सकलज्ञवि. कलं साक्षात्प्रतिपद्यते युक्तोसौ तंत्र प्रमाणम्, किन्तु विद्यमा. नोपि न प्रकृतार्थोपयोगी, तथा प्रतिपद्यमानस्य तस्यैवाशेषज्ञत्वात् । न प्रतिपद्यते चेत्, तर्हि रथ्यापुरुषप्रणीतागमवन्नासौ १९तत्र प्रमाणम् । न ह्यविदितार्थस्वरूपस्य प्रणेतुः प्रमाणभूतागमप्रणयनं नामातिप्रसङ्गात् । द्वितीयविकल्पेप्येतदेव वक्तव्यम् ।
अपौरुषेयोप्यागमो जैमिन्यादिभ्यो यदि सर्वत्र सर्वदा सर्वज्ञाभावं प्रतिपादयेत्तर्हि सर्वस्मै प्रतिपादयेत् केनचित् सह
प्रत्यासत्तिविप्रकर्पविरहात् । तथा च२० "विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो वाहुरुत विश्वतः पात् ।” [श्वेताश्वत० ३।३]
सं वेत्ति विश्वं न हि तस्य वेत्ता तमाहुरग्यं पुरुषं महान्तम् ।” [ श्वेताश्वत० ३।१९] "हिरण्यगर्भ" [ऋग्वेद अष्ट०८ मं० १० सू० १२१ ] प्रकृत्य "सर्वज्ञः" इत्यादौ न न कस्यचिद्वि२५प्रतिपत्तिः स्यात्-'किमनेन सर्वज्ञः प्रतिपाद्यते कर्मविशेषो
वा स्तूयते' इति । न खलु प्रदीपप्रकाशिते घटादौ कस्यचिद्विप्रतिपत्तिः-'किमयं घटः पटो वा' इति । न च स्वरू
१ यदि । २ सर्वथा ज्ञानाभावः । ३ ज्ञानातिशय । ४ यसः। ५ सातिशयत्व । ६ सर्वसकलज्ञविकलत्वे। ७ सर्वज्ञाभावलक्षणेऽर्थे । ८ सर्वज्ञाभावे । ९ रथ्यापुरुषस्य प्रमाणभूतागमप्रणेतृत्वं स्यात् । १० मीमांसकेन नैयायिकादिना च। ११ प्रस्तुत्य । १२ वेदवाक्येन। १३ यागलक्षणः ।
1 'सम्बाहुभ्यां धमति सम्पतत्रैः द्यावाभूमी जनयन् देव एकः' इत्युत्तरार्द्धम् । 2 'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः' इति पूर्वार्द्धम् ।