SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ सू० २।१२ ] सर्वज्ञत्ववादः २६३ न्तरोपलम्भात् क्वचित्तत्सिद्धेः । न चात्राप्ययं न्याय: समानस्तत्संसर्गिण एव कैस्यचिदभावत्, अन्यथा सर्वत्र तदभावविरोधो घटादिवत् । तन्न प्रत्यक्षेणाधिगम्यस्तदभावः । ; नाप्यनुमानेन विवादाध्यासितः पुरुषः सर्वज्ञो न भवति वक्तृत्वाद्रथ्यापुरुषवदित्यनुमाने हि प्रमाणान्तरसंवादिनोऽर्थस्य ५ वक्तृत्वं हेतुः तद्विपरीतस्य वा स्यात्, वक्तृत्वमात्रं वा ? प्रथमपक्षे विरुद्ध हेतुः प्रमाणान्तरसंवा दिसूक्ष्माद्यर्थवक्तृत्वस्याशेयज्ञे एव भावात् । द्वितीयपक्षे तु सिद्धसाधनम् तथाभूतस्य वक्तुरसर्वज्ञत्वेनास्माभिरभ्युपगमात् । वक्तृत्वमात्रस्य तु हेतोः साध्यंविपर्ययेण सर्वज्ञत्वेनानुपलब्धेन सह सहानवस्थानपरस्प- १० रपरिहारस्थितिलक्षणविरोधीसिद्धेस्ततो व्यावृत्यभावान्न खसाध्यनियैतत्वं यतो गमकत्वं स्यात् । सर्वज्ञे वक्तृत्वस्यानुपलब्धेस्ततो व्यावृत्तिरित्यभ्यसम्यकू, सर्वसम्बन्धिनोऽनुपलम्भस्यासिद्धेः तेनैव सर्वज्ञान्तरेण वा तत्र तस्योपलम्भसम्भवात् । सर्वज्ञस्य कस्यचिद्भावात्सर्वसम्वन्धिनोऽनुपलम्भस्य सिद्धिरित्यस - १५ ङ्गतम्, प्रमाणान्तरात्तत्सिद्भाव वैयर्थ्यात् । अतः सिद्धौ चक्रकानुषङ्गः । नापि स्वसम्बन्धिनोऽनुपलम्भात्तद्व्यतिरे के निश्चयः। अस्य परचेतोवृत्तिविशेषैरनैकान्तिकत्वात् । , न चाखिलसाधनेषु दोषस्यास्य समानत्वान्निखिलानुमानोच्छेदः, तत्र विपक्षव्यावृत्तिनिमित्तस्यानुपलम्भव्यतिरेकेण प्रेमा- २० णान्तरस्य भावात् । न चात्र कार्यकारणभावः प्रसिद्धः; असर्वज्ञत्वधैर्मानुविधानाभावाद्वचनस्य । द्धि यत्कार्य तत्तद्धर्मानुविधायि प्रसिद्धं न्ह्यादिसामग्रीगत सुरभिगन्धाद्यैनुविधायिधूम १ भूतल ! २ घटाद्यभाव । १३ सर्वज्ञेपि । ४ एकज्ञानसंसर्गिपदार्थान्तरोपलम्भात् क्वचिद् घटाभावप्रतिपत्तिलक्षणः । ५ प्रदेशस्य । ६ एकज्ञानसंसर्गिको पि कश्चित्प्रदेशो भवेद्यदि । ७ आदिपदेनान्तरितं दूरम् । ८ जैनै: नैः । ९ सर्वशाभाव । १० अतश्च सन्दिग्धविपक्षव्यावृत्तिको हेतुः । १९ वक्तृत्वमात्रस्य । १२ अविनाभूतत्वम् । १३ वक्तृत्वस्य । १४ प्रकृतसर्वज्ञेन । १५ प्रकृतानुमानस्य । १६ वक्तृत्वानुमानस्य । १७ वक्तृत्वानुमानात्सर्वशाभावसिद्धिस्तत्सिद्धौ च सर्वशात्साधनस्य व्यावृत्तिसिद्धिरतश्चानुमानमिति । १८ वक्तृत्वस्य । १९ सर्वशलक्षणाद्विपक्षाद् व्यावृत्तिनिश्चयः । २० अभावसाध्यसाधकानां निखिलसाधनानां पक्षेनुपलम्भः सर्वसम्बन्धी आत्मसंबन्धीवेत्याद्युक्ते असिद्धानैकान्तिकत्वलक्षणस्य । २१ यत्राग्निर्नास्ति तत्र धूमोपि नास्ति । २२ ऊहस्य । २३ वक्तृत्वासर्वज्ञत्वयोः । २४ यसः । २५ वचनम• सर्वज्ञकार्थं न भवति तद्धर्मानुविधानाभावात् । २६ सन्दिग्धानैकान्तिकत्वे सतीदमाह । २७ यसः । २८ आदिपदेन श्रीगन्ध ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy