________________
२६६
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० नाप्यशेपज्ञः क्वचित्कदाचित्केनचित्प्रतिपन्नो येनासौ स्मृत्वा लिन ध्येत, सर्वत्र सर्वदा तनिषेधविरोधात्। न च निषेध्यनिषेध्याधार योरप्रतिपत्तौ निषेधो नामातिप्रसङ्गात् । न ह्यप्रतिपन्ने भूतले घटे च घटनिषेधो घटते। यथा चाभावप्रमाणस्योत्पत्तिः स्वरूपं विषये ५वा न सम्भवति तथा प्राक्प्रपञ्चेनोक्तमिति कृतमतिप्रसङ्गेन।
तन्नाभावप्रमाणाप्यशेषज्ञाभावसिद्धिः । तदेवं सिद्धं सुनिश्चित तासम्भवद्वाधकप्रमाणत्वमप्यशेषज्ञस्य प्रसाधकम् इत्यलमति सङ्गेन।
ननु चावरणविश्लेषादशेषवेदिनो विज्ञानं प्रभवतीत्यसाम्प्रतम: १० तस्यानादिमुक्तत्वेनावरणस्यैवासम्भवादिति चेत्, तदयक्तम
अनादिमुक्तत्वस्यासिद्धेः । तथाहि-नेश्वरोऽनादिमुक्तो मुक्तत्वा त्तदन्यमुक्तवत् । वन्धापेक्षया च मुक्तव्यपदेशः, तदहिते चास्याप्यभावः स्यादाकाशवत्।
ननु चानादिमुक्तत्वं तस्यानादेः क्षित्यादिकार्यपरम्परायाः कर्तृ१५त्वात्सिद्धम् । न चास्य तत्कर्तृत्वमसिद्धम् ; तथाहि-क्षित्यादिकं बुद्धिमद्धेतुकं कार्यत्वात्, यत्कार्य तद्बुद्धिमद्धेतुकं दृष्टम् यथा घटादि, कार्य चेदं क्षित्यादिकम् , तस्माद्बुद्धिमद्धेतुकम् । न चात्र कार्यत्वमसिद्धम् । तथाहि-कार्य क्षित्यादिकं सावयवत्वात् ।
यत्सावयवं तत्कार्य प्रतिपन्नम् यथा प्रासादादि, सावयवं चेदम्, २० तस्मात्कार्यम्।
ननु क्षित्यादिगतात्कार्यत्वात्सावयवत्वाच्चान्यदेव प्रासादादौ कार्यत्वं सावयवत्वं च यदक्रियादर्शिनोपि कृतवुयुत्पादकम् , ततो दृष्टान्तदृष्टस्य हेतोधर्मिण्यभावादसिद्धत्वम् ; इत्यसमीक्षिता. भिधानम् । यतोऽध्युत्पन्नान्प्रतिपत्तॄनधिकृत्यैवमुच्यते, व्युत्प२५ न्नान्वा ? प्रथमपक्षे धूमादावप्यसिद्धत्वप्रसङ्गात्सकलानुमानो.
च्छेदः । द्वितीयपक्षे तु नासिद्धत्वम् ; कार्यत्वादेवुद्धिमत्कारणपूर्वकत्वेन प्रतिपन्नाविनाभावस्य क्षित्यादौ प्रसिद्धः पर्वतादौ
१ सर्वशसद्भावे प्रमाणोपन्यासविस्तरेण । २ अशेषवेदी सावरणो न भवति अनादिमुक्तत्वाद् । यः सावरणः सोनादिमुक्तो न भवति यथा स्तम्भादिः। ३ मुक्तो भवति अनादिमुक्तो भवतीति सन्दिग्धानकान्तिकत्वे सतीदं वक्यमाह । ४ ईश्वरो मुक्तव्यपदेशभाग न भवति बन्धरहितत्वादाकाशवत्। ५ पुरुषस्य । ६ कार्यत्वस्य सावयवत्वस्य च। ७ प्रासादादौ यदक्रियादर्शिनः कृतबुद्ध्युत्पादकं दृष्टं कार्यत्वं सावयत्वं वा साधनं तत् क्षित्यादौ नास्तीत्यसिद्धत्वमिति । ८ साध्यासाधनप्रतिपत्तिरहितान् । ९ यथाविधो धूमो दृष्टान्ते प्रतिपन्नस्तथाविधस्य दार्शन्तिकेऽभावात् । १० नुः ।