________________
प्रमेयकमलमार्त्तण्डे [ २. प्रत्यक्षपरि०
इत्यप्यसाम्प्रतम् यतो 'भवनाला ज्ञानं वैशद्यमनुभवेति' इत्येतावन्मात्रेण तज्ज्ञानस्य दृष्टान्तोपपत्तेः । न चाशेषदृष्टान्तधर्माणां साध्यधर्मिण्यापादनं युक्तं सकलानुमानोच्छेदप्रसङ्गात् । न चाशेषशज्ञानं क्रमेणाशेषार्थ ग्राहीष्यते येन तत्पक्ष निक्षिप्तदोषोप१ निपातः सकलावरणपरिक्षये सहस्रकिरणवद्युगपनिखिलार्थीद्द्योतनस्वभावत्वात्तस्य कारणक्रमव्यवधानातिवर्त्तित्वाच्च ।
२६०
यच्चोक्तम्- युगपत्परस्परविरुद्धशीतोष्णाद्यर्थानामेकत्र ज्ञाने प्रतिभासासम्भवः, तदप्यसारम् ; तत्र हि तेषामभावादप्रतिभासः, ज्ञानस्यासामर्थ्याद्वा ? न तावद्भावात्; शीतोष्णाद्यर्थानां सकृ१० त्सम्भवात् । ज्ञानस्यासामर्थ्यादित्यसत्; परस्परविरुद्धानामन्धकारोयतादीनामेकत्र ज्ञाने युगपत्प्रतिभाससंवेदनात् । सकृदेकत्र विरुद्धार्थानां प्रतिभासासम्भवे 'यत्कृतकं तदनित्यम' इत्यादिव्याप्तिश्च न स्यात्, साध्यसाधनरूपतया तयोर्विरुद्धत्व - सम्भवात् । नाप्येकत्र तेषां प्रतिभासे तज्ज्ञानस्य प्रतिनियतार्थ१५ ग्राहकत्व विरोधः; अन्धकारोयोतादिविरुद्धार्थग्राहिणोऽपि
प्रतिनियतार्थ ग्राहकत्वप्रतीतेः ।
यच्चान्यदुक्तम्-एकक्षण एवाशेषार्थग्रहणाद्वितीयक्षणेऽज्ञः स्यात् ; तदप्यसम्बद्धम् ; यदि हि द्वितीयक्षणेऽर्थानां तज्ज्ञानस्य चाभावस्तदाऽयं दोषः । न चैवम्, अनन्तत्वात्तद्वयस्य । पूर्व हि २० भाविनोऽर्था भावित्वेनोत्पत्स्यमानतया प्रतिपन्ना न वर्त्तमानत्वेनोत्पन्नतया वा । साप्युत्पन्नता तेषां भवितव्यतया प्रतिपन्ना न भूततया । उत्तरकालं तु तद्विपरीतत्वेन ते प्रतिपन्नाः । यदा हि यद्धर्मविशिष्टं वस्तु तदा तंज्ज्ञाने तथैव प्रतिभासते नान्यथा विभ्रमप्रसङ्गात् इति कथं गृहीतग्राहित्वेनाप्यस्याप्रामाण्यम् ? २५ यच्चेदं परस्थरागादिसाक्षात्करणाद्रागादिमानित्युक्तम् ; तदप्ययुक्तम् तथापरिणामो हि तत्त्वकारणं न संवेदनमात्रम्, अन्यथा 'मद्यादिकमेवंविधरसम्' इत्यादिवाक्यात्तच्छ्रोत्रियो यदा प्रतिपद्यते तदाऽस्यापि तद्रसास्वादनदोषः स्यात् । अरस: नेन्द्रियजत्वातैस्यादोषोयम् इत्यन्यत्रपि समानम् । न हि सर्व
१ प्राप्नोति । २ सर्वशशाने । ३ जैनैः । ४ धूपदद्दनाद्यवयविनि । ५ आदि, पदेना हिनकुलादीनां च । ६ कृतकत्वानित्यत्वयोः । ७ अशत्वलक्षणः । ८ भावि - नोऽर्थाः। ९ सर्वशज्ञाने । १० उत्पत्स्यमानतादिनिरूपणप्रकारेण । ज्ञानस्य । १२ रागादिरूपतया । १३ तत्त्वस्य रागादिमत्त्वस्य । १५ मद्यादिज्ञानस्य । १६ सर्वज्ञशानेपि ।
११ सर्वश१४ जानाति ।