________________
सू० २।१२] . सर्वज्ञत्ववादः
२६१ शज्ञानमिन्द्रियप्रभवं प्रतिज्ञायते । किञ्चाङ्गनालिङ्गनसेवनाद्यनिलाषस्येन्द्रियोद्रेकहेतोराविर्भावाद्रागादिमत्त्वं प्रसिद्धम् । न चासो प्रक्षीणमोहे भगवत्यस्तीति कथं रागादिमत्त्वस्याशङ्कापि ।
यदप्यभिहितम्-कथं चातीतादेव्रहणं तत्स्वरूपासम्भवादित्यादि तदप्यसारम् ; यतोऽतीतादेरतीतादिकालसम्बन्धित्वेना-५ सत्वन् , तज्ज्ञानकालसम्बन्धित्वेन वा ? नाद्यः पक्षो युक्तः: वर्त्तमानकाल सम्वन्धित्वेन वर्तमानस्येव वकालसम्वन्धित्वेनातीदादेरपि सत्वसम्भवात् । वर्तमानकालसम्बन्धित्वेन त्वतीतादेरसत्त्वमभिमैतमेव, तत्कालसम्बन्धित्वतत्सत्त्वयोः परस्परं भेदात् । न चैतत्कालसम्वन्धित्वेनासत्त्वे वकालसम्वन्धित्वेनाप्यतीतादेर १० सत्त्वम् । वर्तमानकालसम्बन्धिनोप्यतीतादिकालसम्वन्धित्वेनासत्त्वात् तस्याप्यसत्त्वप्रसङ्गात् सकलशून्यतानुषङ्गः। न चातीतादेः सत्त्वेन ग्रहणे वर्त्तमानत्वानुषङ्गः; स्वकालनियतसत्त्वरूपतयैव तस्य ग्रहणात् । ननु चातीतादेस्तज्ज्ञानकाले असन्निधानाकथं प्रतिभासः, सन्निधाने वा वर्तमानत्वप्रसङ्गः प्रसिद्धवर्त-१५ मानवत् ; इत्यपि मन्त्रादिसंस्कृतलोचनादिज्ञानेन व्याप्तिज्ञानेन च प्रागेव कृतोत्तरम् ।
अथोच्यते-'पूर्व पश्चाद्वा यदि कंचित्कदाचिन्निखिलदर्शिनो विज्ञानं विश्रान्तं तर्हि तावन्मात्रत्वात्संसारस्य कुतोऽनाद्यनन्तता ? अथ न विश्रान्तं तर्हि नानेकयुगसहस्रेणापि सकलसंसा-२० रसाक्षात्करणम्' इति; तदप्युक्तिमात्रम्। यतः किमिदं विश्रान्तत्वं नाम? किं किञ्चित्परिच्छेद्याऽपरस्यापरिच्छेदः, सकलविषयदेशकालगमनासामर्थ्यावान्तरेऽवस्थानं वा, क्वचिद्विपये उत्पद्य विनाशो वा? न तावदाद्यविकल्पो युक्तः, अनभ्युपगमात् । न खलु सर्वज्ञज्ञानं क्रमेणार्थपरिच्छेदकम् , युगपदशेषार्थोद्योत-२५ कत्त्वात्तस्येत्युक्तम् । द्वितीयविकल्पोप्यनभ्युपगमादेवायुक्तः । न हि विषयस्य देशं कालं वा गत्त्वा ज्ञानं तत्परिच्छेदकमिति केनाप्यभ्युपगतम् , अप्राप्यकारिणस्तस्य क्वचिद्गमनाभावात् । केवलं यथाऽनाद्यनन्तरूपतया स्थितोर्थस्तथैव तत्प्रतिपद्यते । तृतीयविकल्पोप्ययुक्तः, क्वचिद्विषये तस्योत्पन्नस्यात्मस्वभावतया विना-३० शासम्भवात् । न हि स्वभावो भाँवस्य विनश्यति स्फटिकस्य
१ बसः। २ अर्धस्य । ३ जनानाम् । ४ तस्यातीतार्थस्य । ५ अन्यथा । ६ अतीतकाल। ७ वर्तमानज्ञानकाले। ८ उत्तरत्र। ९ अर्थे । १० समाप्तम् । ११ ता। १२ कमिश्चिद्वस्तुनि । १३ जनानाम् । १४ जनानाम् । १५ ज्ञानस्य । १६ पदार्थस्य ।