________________
सू० २.१२] सर्वज्ञत्ववादः
२५९ कारव्यवहितरूपाधुपलम्भो न स्यात्स्वात्मनि तथाऽनुपलम्मात् । प्राण्यन्तरे स्वात्मन्यनुपलब्धस्यानालोकान्धकारव्यवहितरूपाधुपलम्भलक्षणातिशयस्य सन्मने सूक्ष्मायुपलम्भलक्षणातिशयोपि स्यात् । जात्यन्तरत्वं चोभयत्र समानन् । अभ्युपगस्य चाक्षजत्वं सर्वशज्ञानल्यातीन्द्रियार्थसाक्षात्कारित्वं लमर्थितं नार्थतः,५ तज्ज्ञानस्य धातिकर्नचतुष्टयक्षयोद्भूतत्वात् ।
यश्चात्य ज्ञानं चक्षुरादिजनितं वेत्याद्यभिहितम् । तदप्यचारु; चक्षुरादिजन्यत्वेऽप्यनन्तरं धर्मादिग्राहकत्वाविरोधस्योत्तत्वात् ।
यच्चाभ्यासजनितत्वेऽभ्यासो हीत्यायुक्तम् । तदव्ययुक्तम् । "उत्पाद्व्ययध्रौव्ययुक्तं सत्" [तत्त्वार्थसू० ५।३०] इत्यखिलार्थ-१० विषयोपदेशस्याविसंवादिनो ज्ञानस्य च सामान्यतः सम्भवात् । न च तज्ज्ञानवंत एवाशेषज्ञत्वाद्याभ्यासः तस्य सामान्यतोऽस्पष्टरूपस्यैवाविर्भावात्, अभ्यासस्य तत्प्रतिवन्धकापायसहायस्याशेषविशेपविषयस्पष्टज्ञानोत्पत्तौ व्यापारात् । नाप्यन्योन्याश्रयः, अभ्यासादेवाखिलार्थविषयस्पष्टज्ञानोत्पत्तेरनभ्युपंगमात् । १५
शब्दप्रभवपक्षेप्यन्योन्याश्रयानुपङ्गोऽसङ्गतः; कारकपक्षे तद्सम्भवात् । पूर्वसर्वज्ञप्रणीतागमप्रभवं तस्याशेषार्थज्ञानम्, तस्याप्यन्यसर्वज्ञागमप्रभवम् । न चैवमनवस्थादोषानुङ्गः, बीजाडरवदनादित्वेनाभ्युपगमादागमसर्वज्ञपरम्परायाः।
यच्चानुमानाविर्भावितत्वपक्षे सम्बन्धासिद्धरित्युक्तम्; तदस-२० मीचनम् ; प्रमाणान्तरात्सम्वन्धसिद्धेरभ्युपगमात् । न खलु कश्चित्तस्यागोचरोस्ति सर्वत्रेन्द्रियातीन्द्रिय विषये प्रवृत्तेरन्यथा तत्रा. नुमानाप्रवृत्तिप्रसङ्गात् , तत्य तन्निवन्धनत्वात् ।
यच्चानुमानागमज्ञानस्य चास्पष्टत्वादित्यभिहितम् । तदप्यसमीक्षिताभिधानम् ; न हि सर्वथा कारणसदृशमेव कार्य विलक्षण-२५ स्थाप्यकुरादेवीजादेरुत्पत्तिदर्शनात् । सर्वत्र हि सामग्रीभेदात्कार्यभेदः । अत्राप्यागमादिज्ञानेनाभ्यासप्रतिबन्धकापायादिसामग्रीसहायेनासादिताशेषविशेषवैशा विज्ञानमाविर्भाव्यते । __ भावनावलादैशये कामाद्युपप्लुतज्ञानवत्तस्याप्युपप्लुतत्वप्रसङ्गः
१ नक्तञ्चरादौ सर्वशलक्षणे प्राण्यन्तरे च । २ परमार्थतः। ३ सर्वशस्य । ४ पुरुषस्य । ५ अशेषविशेषविषयस्पष्टशान। ६ केवलात् । ७ जनैः । ८ उत्तरसर्वज्ञस्य । ९ तर्कलक्षणात् । १० इन्द्रियतीन्द्रियाविषये प्रवृत्तिर्न स्यापदि । ११ सर्वथे। १२ मादिपदेनानुमानम् । १३ आदिपदेन देशकालादि । १४ मशेषशज्ञानस्य ।