________________
२५८
अमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० कृष्टार्थग्राहकेपि प्रत्यक्षशब्दवाच्यत्वदर्शनात् । तथाहि-अनेकयोजनशतव्यवहितार्थनाहि वैनतेयप्रत्यक्षा रामायणादौ प्रसिद्धम. लोके चातिदूराग्राहि गृध्रवराहादिप्रत्यक्षम् , स्मरणसव्यपेक्षे. न्द्रियादिजन्यप्रत्यभिज्ञाप्रत्यक्षं च कालविप्रकृष्टस्यातीतकाल५सम्बन्धित्वस्यातीतदर्शनसम्वन्धित्वस्य च पाहि पुरोवस्थितार्थ भवतैवाभ्युपगम्यते । अन्यथा--
"देशकालादिभेदेन तंत्रास्त्यवसरो मितेः। इदानीन्तनमस्तित्वं न हि पूर्वधिया गैतम् ॥"
[ मी० श्लो० प्रत्यक्षसू० श्लो० २३३-३४] १० इत्यादिना तस्याग्रहीतार्थाधिगन्तृत्वं पूर्वापरकालसम्बन्धित्वलक्ष.
णनित्यत्वग्राहकत्वं च प्रतिपाद्यमानं विरुध्येत । प्रातिभं च ज्ञानं शब्दलिङ्गाक्षव्यापारानपेक्षं 'श्वो से भ्राता आगन्ता' इत्याद्याकार. मनागतातीन्द्रियकालविशेषणार्थप्रतिभासं जाग्रहशायां स्फुटतरमनुभूयते। १५ किञ्च, धर्मादेरतीन्द्रियत्वाच्चक्षुरादिनानुपलम्भः, अविद्यमानत्वाद्वा स्यात् , अविशेषणत्वाद्वा? न तावदाद्यः पक्षः, अतीन्द्रियस्याप्यतीतकालादेरुपलम्भाभ्युपगमात् । नाप्यविद्यमानत्वात्। भाविधर्मादेरतीतकालादेरिवाविद्यमानत्वेप्युपलम्भसम्भवात् ।
अविशेषणत्वं तु तस्यासिद्धं सकललोकोपभोग्यार्थजनकत्वेन २० द्रव्यगुणकर्मजन्यत्वेन चास्याखिलार्थविशेषणत्वसम्भवात् । अतीतार्थतीन्द्रियकालादेरिवास्यापि विशेषणग्रहणप्रवृत्तचक्षुरादिना ग्रहणोपपत्तेः कथं धर्म प्रत्यस्यानिमित्तत्वसाधने प्रसङ्गविपर्ययसम्भवः? प्रश्नादिमन्त्रादिना चसंस्कृतं चक्षुर्यथा कालविप्रकृष्टा
र्थस्य द्रव्यविशेषसंस्कृतं च निर्जीवकादिचक्षुर्जलाधन्तरितार्थस्य २५ ग्राहकं दृष्टम् , तथा पुण्यविशेषसंस्कृतं सूक्ष्माद्यशेषार्थग्राहि भविष्यतीति न कश्चिदृष्टस्वभावातिक्रमः। 'स्वात्मनि च यावद्भिः कारणैर्जनितं यथाभूतार्थग्राहि प्रत्यक्ष प्रतिपन्नं तथा सर्वत्र सर्वदा प्राण्यन्तरेपि' इति नियमे नक्तञ्चराणामनालोकान्ध
१ शाने। २ वराहः पिपीलिका। ३ अनिन्द्रियमादिपदेन। ४ धर्मस्य । ५ देवदत्तलक्षणे । ६ मीमांसकेन । ७ स्वभावादिरादिपदेन । ८ पूर्वप्रमाणगृहीतेथे देवदत्तलक्षणे। ९ प्रत्यभिशायाः। १० परिशातम् । ११ प्रत्यभिज्ञानस्य। १२ भवता। १३ योगजधर्मकारणधर्मोपलम्भे। १४ अनागतमादिपदेन । १५ सर्वशशनस्य । १६ अग्राहकत्वसाधने। १७ आदिपदेन संशा। १८ सत्रमादिपदेन । १९ कर्णथार। २. योगिचक्षुः।