SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ सू० २११२] सर्वज्ञत्ववादः . २५७ मिणि तद्धर्मेणाग्निना धूमस्य व्याप्तिप्रतीतेः । साध्यविकलश्च दृष्टान्तः स्यात् । द्वितीयपक्षे तु प्रत्यक्षादिविरोधः । अथोभयगताग्निसामान्यं साध्यते तर्हि लिद्धसाध्यता। यच्चान्यदुक्तम्-अमेयत्वं क्रिमशेषज्ञेयव्यापिप्रमाणप्रमेयत्वव्यक्तिलक्षणमस्सदादिप्रमाणप्रमेयत्वव्यक्तिखरूपं वेत्यादि तद्भूमादि-५ सकलसाधनोन्मूलनहेतुत्वान्न वक्तव्यम् । तथाहि-साध्यधर्मिधर्मो धूमो हेतुत्वेनोपात्तः, दृष्टान्तधर्मिधर्मा वा यात्, उमरगतसामान्यरूपोवा? साध्यधर्मिधर्मत्वे दृष्टान्ते तस्याभवादनन्दयो हेतु दोषः। दृष्टान्तधर्मिधर्मत्वे साध्यधर्मिण्यभावादसिद्धता । उभयगतसामान्यरूपत्वेप्यसिद्धतैव, प्रत्यक्षत्वाप्रत्यक्षत्वेनात्यन्तविल १० क्षणमहानसाचलप्रदेशव्यक्तिद्वयाश्रितसामान्यस्यैवासम्भवात् । अथ कण्ठाक्षिविक्षेपादिलक्षणधर्मकलापसाधान्न महानसाचलप्रदेशाश्रितधूमव्यक्योरत्यन्तवैलक्षण्यं येनोभयगतसामान्यासिद्धेरसिद्धता स्यात् । तर्हि वापूर्वार्थव्यवसायात्मकत्वादिधर्मकलापसाधर्म्यस्यातीन्द्रियेन्द्रियविषयप्रमाणव्यक्तिद्वयेऽत्यन्तवैलक्षण्य-१५ निवर्त्तकस्य सम्भवादुभयसाधारणसामान्यसिद्धेः कथं प्रमेयत्वसामान्यस्यासिद्धिः? यञ्चेदभुक्तम्-प्रसङ्गविपर्ययाभ्यां चास्याशेषार्थविषयत्वं वाध्यत इत्यादिः तन्मनोरथमात्रम्, साध्यसाधनयोाप्यव्यापकभावसिद्धौ हि व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयको यत्र २० प्रदर्श्यते तत्प्रसङ्गसाधनम् । व्यापक निवृत्तौ चावश्यं भाविनी व्याप्य निवृत्तिः स विपर्ययः। न च प्रत्यक्षेत्वसत्सम्प्रयोगजत्वविधमानोपलम्भनत्वधर्माद्यनिमित्तत्वानां व्याप्यव्यापकभावः कचित् प्रतिपन्नः । स्वात्मन्येवासौ प्रतिपन्न इत्यप्यसङ्गतम् ; चक्षुरादिकरणग्रामप्रभवप्रत्यक्षस्याव्यवहितदेशकालस्वभावाविप्रैकृष्ट २५ प्रतिनियतरूपादिविषयत्वाभ्युपगमात्, नियमस्य चाभावाद्विप्र १ महानसे पर्वतानेरभावात् । २ लौकिक । ३ सिद्धं नः ( जैनानां ) समीहितमिति पाठान्तरम् । ४ पर्वतधूमवत्त्वादित्युक्ते। ५ महानसे। ६ यो यः पर्वतधूमवान् स सोग्निमानित्यन्वयो न। ७ महानसधूमवत्त्वादित्युक्त। ८ अवीन्द्रियविषयश्चेन्द्रियविषयश्च तयोहिकं प्रमाणम् । ९ सदृशत्वप्रवर्तकस्येत्यर्थः। १० सर्वशस्य । ११ अनुमाने। १२ व्याप्य। . १३ व्यापक । १४ व्याप्य। १५ व्यापक। १६ दृष्टान्ते । १७ समीपवति । १८ यसः। १९ यथाविधे प्रत्यक्षे व्याप्यव्यापक. भावः साध्यसाधनानां प्रतिपन्नस्तथाविधेऽसौ स्यान्न सर्वज्ञत्वप्रत्यक्षे तत्र व्याप्यव्यापकमावस्याप्रतिपन्नत्वादित्यर्थः । २० यत्प्रत्यक्षशब्दावाच्यं तदव्यवहितदेशकालार्थग्राहकमिति नियमस्य । १७ १८
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy