SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ २५६ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० वादियद्यग्निमत्पर्वतधर्मस्तदाऽसिद्धः; कोहि नामानिमत्पर्वत. धर्म हेतुमिच्छन्नग्निमत्वमेव नेच्छेत् । तद्विपरीतधर्मश्चविरुद्ध साध्यविरुद्धसाधनाद । उभयधर्मश्चेद्व्यभिचारी सपक्षेतरयोवैत नात् । विमत्यधिकरणभावापन्नधर्मिधर्मत्वे धूमवत्वादेः सर्व ५सुस्थम् । यथा चाचलस्याचलत्वादिना प्रसिद्धसत्ताकस्य सन्दिग्धाग्निमत्त्वादिसाध्यधर्मस्य धर्मों हेतुर्न विरुध्यते, तथा प्रसिद्धा त्मत्वादिविशेषणसत्ताकस्याप्रसिद्धसर्वज्ञत्वोपाधिसत्ताकस्य च धर्मिणो धर्मः प्रकृतो हेतुः कथं विरुध्येत ? यदपि अविशेषेण सर्वज्ञः कश्चित्साध्यते विशेषेण वेत्याद्यऽभि१० हितम् । तदप्यभिधानमात्रम् ; सामान्यतस्तत्साधानात्तत्रैव विवा दात् । विशेषविप्रतिपत्तौ पुनर्दष्टेष्टाविरुद्धवाक्त्वादहत एवाशेषार्थज्ञत्वं सेत्स्यति । कथं वा तत्प्रतिषेधः अत्राप्यस्य दोषस्य समा. नत्वात् ? अर्हतो हि तत्प्रतिषेधसाधनेऽप्रसिद्धविशेषणः पक्षो व्याप्तिश्च न सिध्येत् , दृष्टान्तस्य साध्यशून्यतानुषङ्गात् । अनहत१५श्चेत् ; स एव दोषो वुद्धादेः परस्यासिद्धः, अनिष्टानुषङ्गश्चाहतस्तदप्रतिषेधात् । सामान्यतस्तत्प्रतिषेधे सर्व संस्थम् । यञ्चोक्तम्-एकज्ञानप्रत्यक्षत्वं सूक्ष्माद्यर्थानां साध्यत्वेनाभिप्रेतं प्रतिनियतविषयानेकज्ञानप्रत्यक्षत्वं वेत्यादि; तदप्युक्तिमात्रम् ; प्रत्यक्षसामान्येन कस्यचित्सूक्ष्माद्यर्थानां प्रत्यक्षत्वसाधनात् । २० प्रसिद्ध च तेषां सामान्यतः कस्यचित्प्रत्यक्षत्वे तत्प्रत्यक्षस्यैकत्वमिन्द्रियानिन्द्रियानपेक्षत्वात्सिध्येत् , तदपेक्षस्यैवास्यानेकत्वप्रसिद्धेः। तदनपेक्षत्वं च प्रमाणान्तरात्सिद्धयेत् ; तथाहि-योगिप्रत्यक्षमिन्द्रियानिन्द्रियानपेक्षं सूक्ष्माद्यर्थविषयत्वात्, यत्पुनरिन्द्रियानिन्द्रियापेक्षं तन्न सूक्ष्माद्यर्थविषयम् यथास्सदादिप्रत्यक्षम्, २५तथा च योगिनः प्रत्यक्षम् , तस्मात्तथेति । किञ्च, एवं साध्यविकल्पनेनानुमानोच्छेदः । शक्यते हि वक्तुम्-साध्यधर्मिधर्मोऽग्निःसाध्यत्वेनाभिप्रेतः,दृष्टान्तधर्मिधर्मः, उभयधर्मो वा ? प्रथमपक्षे विरुद्धो हेतुः; तद्विरुद्धेन दृष्टान्तध १ ज्ञानवान् । २ अतश्च हेतूपन्यासो व्यर्थः । ३ अनग्निमत्पर्वतधर्मः । ४ आदिपदेन स्थूलत्वादिना। ५ आदिपदेन अमूर्त्तत्वम् । ६ सर्वशसाधने। ७ वीतो न सर्वशः पुरुषत्वाद्रथ्यापुरुषवदिति। ८ यो यः पुरुषः स सोऽर्हन् सन् सर्वशो न भवतीति । ९ अन्यथा। १० रथ्यापुरुषस्य । ११ सर्वज्ञभाव। १२ सुगतादेः । १३ मीमासकस्य । १४ तस्य सर्वज्ञत्वस्य । .१५ अस्मत्पक्षेपि समान इत्यर्थः । कथम् ? सामान्यतः सर्वशसाधने अप्रसिद्ध विशेषणः पक्ष इत्यादिदूषणानि विशेषपक्षों क्तानि नोपदौकन्ते इति । १६ प्रत्यक्षस्य । ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy