________________
सू० २११२]
सर्वज्ञत्ववादः
२५५
अत्र प्रतिविधीयते । यत्तावदुक्तम्-सदुपलम्भकप्रमाणपञ्चकाविषयत्वं साधनम्; तदसिद्धम् । तत्सद्भावावेदकस्यानुमानादेः सद्भावात् । तथाहि-कश्चिदात्मा सकल पदार्थसाक्षात्कारी तन्द्रहणखभावत्वे सति प्रेक्षीणप्रतिवन्धप्रत्ययत्वात् , यद्यद्रहणस्वभावत्वे सति प्रक्षीणप्रतिवन्धप्रत्ययं तत्तत्साक्षात्कारि यथापगततिमि-५ रादिप्रतिवन्ध लोचनविज्ञानं रूपसाक्षात्कारि, तद्हणखभावत्वे सति प्रक्षीणप्रतिवन्धप्रत्ययश्च कश्चिदात्मेति । न तावत्सकलार्थग्रहणस्वभावत्वमात्मनोऽसिद्धम् ; चोदनावलान्निखिलार्थज्ञानोत्पत्यन्यथानुपपत्तेस्तस्य तत्सिद्धेः, 'संकलमनेकान्तात्मकं सत्यात्' इत्यादिव्याप्तिज्ञानोत्पत्तेर्वा । यद्धि यद्विषयं तत्तद्रहणस्वभावम् १० यथा रूपादिपरिहारेण रसविषयं रासनविज्ञानं रसग्रहणस्वभा. वम् , सकलार्थविषयश्चात्मा व्याप्त्यागमज्ञानाभ्यामिति । सोयं ___ "चोदना हि भूतं भवन्तं भविष्यन्तं विप्रकृष्टमित्येवंजातीयकमर्थमवगमयितुमलं पुरुषान्" [शावरभा० १२११२] इति स्वयं ब्रुवाणो विधिप्रतिषेधविचारणानिवन्धनं साकल्येन व्याप्तिज्ञानं १५ च प्रतिपद्यमानः सकलार्थग्रहणस्वभावतामात्मनो निराकरोतीति कथं स्वस्थः ? प्रक्षीणप्रतिवन्धप्रत्ययत्वं च प्रागेव प्रलाधित. त्वान्नासिद्धम् ।
साध्यसाधनयोश्च प्रतिबन्धो न प्रत्यक्षानुमानाभ्यां प्रतिज्ञायते येनोक्तदोर्षांनुषङ्गः स्यात्, तर्काख्यप्रमाणान्तरात्तसिद्धः। २० . याप्रतिपन्नपक्षधर्मत्वो हेतुर्न प्रतिनियतसाध्यप्रतिपत्त्यङ्गमित्युक्तम् । तदप्यपेशलम् ; न हि सर्वज्ञोत्र धर्मित्वेनोपात्तो येनास्यासिद्धेरयं दोषः । किं तर्हि ? कश्चिदात्मा। तत्र चाविप्रतिपत्तेः। न चापक्षधर्मस्य हेतोरगमकत्वम् ।
"पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणतानुमा। सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ॥” [ इति स्वयमभिधानात् । यदप्युक्तम्-सत्तासाधने सर्वो हेतुस्त्रयीं दोषजाति नातिवर्त्तत इति; तत्सर्वानुमानोच्छेदकारित्वादयुक्तम् । शक्यं हि वक्तुं धूम
१ जैनैः । २ प्रक्षीणः प्रतिबन्धलक्षणः प्रत्ययः करणं यस्य । ३ वस्तु। ४ आत्मा सकलार्थग्रहणस्वभावो भवति सकलार्थविषयत्वादित्युपरिष्टाद्योज्यम् । ५ मीमांसकः। ६ बुद्धिमान् । ७ विशेष्यम् । ८ अनवस्थेतरेतरानुषङ्गः। ९ अर्थसाक्षात्कारित्वे सत्येव प्रक्षीणप्रतिबन्धप्रत्ययत्वं लोचने सिद्धं स्तम्भादौ न दृष्टम् । अतः साध्यधर्मिणि साध्यसाधनयोः सम्बन्धसिद्धिर्भवत्येव । १० परेण । ११ अनुमाने। १२ धर्मिणः।